________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः वीरमत्याः पर्यवसानम् तिष्ठ, अहं यथासंभवं शीघ्रमेवागमिष्यामीति निशम्य तयाऽभाणिपूज्ये ! वश्रु ! भवतीत्थं कथं ब्रूते ? मम तु तन्नरत्वभवने किमपि प्रत्ययो नैव जायते । मया तु त्वादृशः शक्तिशालिजनः कुत्राऽपि नावलोकितः । कस्मिन्नेतादृशी शक्तिर्वर्तते, यो भवत्कृतमन्यथा कुर्यात् ? मम त्विदमसंभाव्यं लक्ष्यते । नटानामेतावदूरगमनं तत्र तस्य मनुष्यभवनमिति सर्वमनृतं प्रतिभाति, ॐ भवदिच्छा चेत्तदैवैवं भवितुर्महति, यतो भवत्यामित्थं दैवीशक्तिर्विद्यते, अन्यस्मिंस्तादृशी शक्तिर्नास्ति । श्रीमती विमलापुरीं सहर्ष गन्तुमर्हति, तत्र मन्निषेधो न, परं मन्मनीषया तत्र गमनेनाऽलम् । अतःपरं सम्यग विचार्य यद्रोचते तक्रियताम् । यतःन तच्छस्त्रैर्न नागेन्द्र-र्न हयैर्न पदातिभिः । कार्यं संसिद्धिमभ्येति, यथा बुद्ध्या प्रसाधितम् ॥५॥ __इत्युक्त्वा गुणावली ततो निजावासमागता, परं वीरमती कमप्युत्पातं नोत्थापयेदिति चिन्तया तच्चेतो विषण्णं बभूव । इतो निश्चिन्तमुपविष्टा वीरमती विदिताखिलमन्त्रतन्त्रादीनाराध्य तत्प्रभावतस्तत्रागतान् देवान राज्ञश्चन्द्रस्यानिष्टायोवाच । वीरमत्युक्तमाकर्ण्य सुविचारनिमग्नैर्देवैरुक्तम्- राज्ञि ! कार्यमिदमस्माभिर्न संपत्स्यते । सूर्यकुण्डाभिषेकेनाप्तनरत्वस्य तस्य विपरीतकरणशक्तिरस्मबहिर्विद्यते । यतःअनुकूले सति धातरि, भवत्यनिष्टादपीष्टमविलम्बम् ।
।। २४६ ।।