________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः
वीरमत्याः पर्यवसानम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य चतुर्विंशपरिच्छेदे वीरमत्याः पर्यवसानम्
अथ राज्ञश्चन्द्रस्य नृत्वाप्तिसमाचारे विदिते सत्येव सामर्षा वीरमती ध्यातवती-जगत्येतादृक्षः कः शक्तिमान् विद्यते, येन चन्द्रः पुनर्नरो विरचितः ? तस्यात्रागमनेच्छापि श्रूयते, परमेतत्सर्वं ममैव त्रुटिरस्ति, यन्मया स जीवन्मुक्तः । मदग्रेऽर्भको भूत्वा पुनरपि स मे स्पर्धा कर्तुमीहते, परं तन्न सुलभमस्ति । अहं तस्यागमनमेव न दास्यामि, स्वयमेव विमलापुरीमेत्य तन्मानमर्दनं करिष्यामि चैवं कृते जना मदीयां श्लाघामपि करिष्यन्ति । पुनरिदानीमनया घटनया मे शिक्षाप्तिरपि जाता, यज्जीवतः शत्रोर्मोचनं मौढ्यमस्ति । एवं विचार्य वीरमती गुणावलीं निजोपान्ते समाहूयाऽवक्-गुणावलि ! श्रुतं मया यद् विमलापुर्यां तव भर्तुर्मानवत्वाऽऽप्तिर्जाताऽस्ति स चाऽत्राऽऽगन्तुमिच्छति, परमेष तस्य महाभ्रमो विद्यते, यतः स मां कदापि जेतुं न शक्नोति । तवापीयं वार्ता विदिता स्यात्, परं मद्भयान्न प्रकटयसि । पुनरनुत्पातेच्छा चेत्त्वया पत्रलेखेन तस्मै सूचनीयम्, यदत्रेत्य स राज्यकरणेच्छां जह्यात्, सहैवायमुदन्तो गुप्तेन रक्षणीयो भविष्यति । कस्मैचित्कस्यचिद् वृत्तान्त-कथनस्यावश्यकता नाऽस्ति । चेत्त्वमस्यां मदीयसूचनायां सावधाना न भविष्यसि, मदवञ्चनचेष्टां च करिष्यसि, तदा ज्ञातव्यं यन्मत्तोऽधिकं जगति कोऽपि कुत्सितो नाऽस्ति । अहं तं प्रबोधयितुं विमलापुरीं जिगमिषामि । तावत्त्वमत्र सुखेन
I
।। २४५ ।।
1