________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः
वीरमत्याः पर्यवसानम् तवेदनामसहमानायास्तस्याः प्राणपतङ्गः कायपिञ्जरं परित्यज्य द्रुतं तदैवोदडीयत । निजदुष्कृतिवशात्तस्याः षष्ठनरके गन्तव्यमजनिष्ट यतः संसारे पापबहुलानां प्राणिनामियमेव गतिर्जायते। अथ चन्द्रराजस्योपरि व्योम्नो देवैः पुष्पवृष्टिं विधाय जयारावः कृतः, पुनर्वीरमती भवाब्धौ निमग्नाभूत् । यतो धर्मधारिभिः पुरुषों वैरं विदधाति, तस्यैवमेव गतिर्भवति । यथासमयं धरेशश्चन्द्रो विमलापुरीमागतवान्, तत्र तेन विजयदुन्दुभयो वादिताः । विदितवृत्तान्तेन राज्ञा मकरध्वजेनाऽपि मुदाऽर्धराज्यदानेन राजा चन्द्रः सत्कृतः, तद्वृत्तज्ञा प्रेमलाऽपि प्रहर्षात्प्रोत्साहेन चन्द्रं शुश्रूषमाणा सांसारिकसुखमुपभुक्तवती । अथ सकलापद्रहितस्य चन्द्रस्य वचनातीतसुखमयानि दिनानि निर्गन्तुं लग्नानि ।
|| २५१ ।।