________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः
उपकारिषु यः साधुः, साधुत्ये तस्य को गुणः ? । अपकारिषु यः साधुः, स साधुः सद्भिरुच्यते
गुणावल्या समं पत्रव्यवहारः
॥६९॥
आम्रपादपः पाषाणप्रक्षेपकायापि फलं ददाति, चन्दनतरुश्छेदकायाऽपि सुगन्धं वितरति, पीलितोऽपीक्षुदण्डो मधुररसं प्रयच्छति । तथा भवतापि मे दुर्गुणान् स्वान्तेऽगृहीत्वा स्वसौजन्यस्य पूर्णपरिचयो दत्तोऽस्ति, तदुचितमेव भवादृशानां सत्पुरुषाणाम् ।
यतः
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहितासक्ता, रत्नदीपा इवोत्तमाः
॥७०॥
यथार्थतो ममागोऽत्यनुचितमासीद्यतः वश्रूवचनं मत्वा भवद्वञ्चना कृता । तदानीं तामजानत्या मया यथार्थतः स्वोदरं ताडयित्वा पीडाऽऽहूता, तदर्थं मे महान् पश्चात्तापो भवति । परं कदाचित्कदाचित्पुण्यापचयात्कर्मदोषाद्वा मनुष्याणां बुद्धिर्भश्यते ।
यतः
कर्मणा बाध्यते बुद्धि-र्न बुद्धया कर्म बाध्यते । सुबुद्धिरपि यद्रामो, हैमं हरिणमन्वगात्
॥७१॥ मद्विषयेऽपि तथैवाऽभूत्-वश्रूवचनमेत्याहं कौतुकविलोकनाय गता, परं तत्र मे तस्माद्वानिर्जाता तेन सांप्रतमपि मे पश्चात्तापो भवति । चेन्मया तस्यै भवदुद्वाहवार्ता न कथिता भवेत्तदैतादृशोऽनर्थः कदापि न स्यात्, मम निजकृतेः फलं भोक्तव्यमभूत् । परमहमात्मीयं दुःखं कस्मै निवेदयेयं, स्वजाड्यवातां
1. आ + इ + क्त्वा ।
।। २४२ ।।