________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः कस्मैचित्कथयितुं स्फूर्तिर्नेयर्ति । कृतेऽपि पश्चात्तापे विकृता वार्ता न शुद्ध्यति, यतः पयसि पीते जातिप्रश्नेन को लाभः ? यद् भाग्ये लिखितमासीत्तद् भोक्तव्यमभूत् । भाग्यस्यागे कस्यचित्किञ्चिन्न प्रगल्भते । उक्तमपिभगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत् एवास्तं, नियतिः केन लथ्यते ? ॥७२॥
प्रिय ! भवद्वियोगस्य षोडशाब्दी व्यतीता । एतेषु दिनेषु मयि किं किं व्यतीयाय, मम किं किं शारीरिक मानसिकं च कष्टं सोढव्यमभूत, तदहमेव जानामि नान्यः कोऽपि, किमधिकमतःपरं विरहे सुखावहमपि वस्तु दुःखप्रदमेव भवति ।
यतः
रात्रिमें दिवसायते हिमरुचिश्चण्डांशुलक्षायते, तारापङ्क्तिरपि प्रदीप्तवडयावह्निस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते, हा हा! चन्दनबिन्दुरद्य जलवत्संचारिरङ्गायते ॥७३॥
किन्तु भवत्पत्रमवाप्याऽविलम्बितं च माविनं भवत्समागमं ज्ञात्वाऽहं तां सर्वां वार्ता व्यस्मार्षम् । अद्य त्वहं भवत्संगमकल्पनां कृत्वाऽऽनन्दनिमग्नैकविधाऽनिर्वचनीयस्वप्रसुखे विहरमाणाऽस्मि। हे जीवनाधार ! भवतो मनुष्यत्वप्राप्त्यवगमतो गुरुप्रहर्षो हृदि न माति । मत्कृतेऽस्मात्परः सुखसमुदायसमाचारोऽन्यो न ह्येव भवितुमर्हति ।
|| २४३ ।।