________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः
गुणावल्या समं पत्रव्यवहारः चारः पृष्टः, तेनाऽपि च चन्द्रकथितः सर्वो वृत्तान्तः श्रावितः । यद्यपि पत्रे राज्ञा चन्द्रेण गुणावल्याः किञ्चिच्छुभाशुभं लिखितमासीत्, तथापि तत्पत्रं पठित्वा तस्या मुदेवाजनि । तया तदानीमेव पत्रं लिखित्वा पत्रवाहकायार्पितं, स च सम्मानपूर्वकं तूष्णीमेव विसृष्टः । किन्तु यथा विकसिते पुष्पे तत्सुरभिः प्रकटनं विना न तिष्ठति, तथैवेयं वार्तापि सुगुप्ता नाऽस्थात् । आभापुरीं परितोऽञ्जसैवेयं वार्ता प्रससार-राजा चन्द्रश्चरणायुधात्पुनर्मनुष्यो बभूव । यत्र तत्र सर्वत्रेयमेव वार्ता प्रवर्तमानाऽऽसीत्, सर्वे जना इदमेवाऽभिलषन्ति स्म-कदाऽऽयास्यति नृपस्तं च दृष्ट्वा स्वनेत्रे प्रीणयिष्यामः । अखिले नगरे वीरमत्येवैका तादृश्यासीत्, यस्या अस्योदन्तस्य श्रवणेन महद्दुःखमभूत् । अस्तु ।
राज्ञ्या गुणावल्याः पत्रमादाय स पत्रवाहको राज्ञश्चन्द्रस्य समीपमागतस्तस्मै च समस्तं वृत्तान्तं निवेद्य गुणावलीदत्तं पत्रं ददौ । राज्ञा चन्द्रेण तत्पत्रं हृदयेनाश्लिष्य पुनरतिप्रेम्णा तत्पठनमारेभे । तत्पत्रमित्थमासीत् प्रियप्राणनाथ ! भवत्पत्रं प्राप्तं पठित्वाऽत्यानन्दोऽभूत् । भवता पत्रे य उपालम्भा लिखितास्ते मदीयापराधाऽपेक्षयाऽत्यल्पाः सन्ति । भवांस्तद्योग्योऽहं च श्रवणयोग्याऽस्मि, तत्त्वतोऽहं दोषाणां पेटा, कथञ्चिदपि दयापात्रं नास्मि। किन्तु सागरवद् गम्भीरो भवान् स्वभावेनैव परोपकारं विदधाति । यथा जीमूतो जलेन सरित्तडागादीन् पूरयित्वापि तत्प्रत्युपकारं नेच्छति ।
यतः
।। २४१ ।।