________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः कथनेच्छा मे जायते, परं पुनरपि विचिन्तयामि तदा तत्र कर्मणि ते कोऽपि दोषो न दृश्यते । यद् भाग्ये लिखितमासीत्तदेवाऽभूत, यतोऽनेकोपायेषु कृतेष्वपि भवितव्यं केनापि नापमृज्यते । यतःहरिणापि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥६७॥
तवाऽसद्व्यवहारस्मृत्याऽवश्यमेव स्तोकरोष आगच्छति, परं यदा तव प्रेम्णः स्मरणं विजृम्भते, तदा मे मनः संतोषैर्मियते। अस्तु, अतोऽधिकं किं लिखेयम् ? गतवृत्तान्तस्य विस्मरणमेव श्रेयस्करं बोभूयते, प्रेमपात्रस्यागः सदा क्षम्यमेव। पुनरहमिदमपि जानामि, यत्त्वया स्वकृतापराधाय पर्याप्तः पश्चात्तापोऽनुभूतोऽस्ति, अतोऽमुमेव दण्डं त्वत्कृते पर्याप्तं मत्वाऽहं ते क्षमाप्रदानं करोमि, मल्लोचने त्वद्विलोकनायातीव लालायिते स्तः । किं बहुनाप्रियादर्शनमेवाऽस्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा
॥६८॥ ___ मच्छरीरमत्र प्राणाश्च त्वत्समीपे सन्ति, इदानीमेव तव संगमेच्छा जायते । यद्दिनान्यतिकष्टेन निर्गच्छन्ति, पश्येयम, ईश्वरोऽस्मान कदा संगमयति । पत्रोत्तरं सपद्येव लेखनीयं, निजश्चश्रवाऽस्मिन् विषये भ्रमादपि कापि वार्ता न कर्तव्या। अन्यान्यमुदन्तं पत्रवाहकमपि प्रष्टुमर्हसीति तव शुभचिन्तकश्चन्द्रकुमारः ।
गुणावल्याऽस्य पत्रस्य पठनानन्तरं पत्रवाहकादपि समा
।। २४० ।।