________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः । गुणावल्या समं पत्रव्यवहारः बहुशो विषयवासनावासिताः सत्यः स्वसाहसबलेन वृष्टितरङ्गितामपि तरङ्गिणीं तरन्ति, चानेकशो निजनायकमपि नाशयन्ति।
यतः
त्रियो ह्यकरुणाः क्रूरा, दुर्मर्षाः प्रियसाहसाः । घ्नन्त्यल्पार्थेऽपि विश्रब्धं, पतिं भ्रातरमप्युत ॥६५॥
ता नगरे धानमपि विलोक्य बिभ्यति, परं कानने केसरिणोऽपि कर्णं गृह्णन्ति । पुनरवसरे तु रज्जुं वीक्ष्यापि धावन्ति, भीतास्यं चोच्चैरारटन्ति, कार्ये प्राप्ते तु विषधरानपि करेणाऽऽददते। प्रिये ! किं बहुना भर्तृहरिविक्रमादित्यप्रमुखा महाप्रतापिनोऽपि पुरुषाः स्त्रीचरित्रपारं नेयुः । अतोऽहं त्वां किं ब्रूयाम् ? इयं तु जगतो रीतिरेवास्ति, परं तथाप्यहं ते कुलीनतां विलोक्य कदाचिदपि त्वत्त ईदृशस्य दुर्व्यवहारस्याशां न कृतवानासम। तव मत्तोऽन्तरं न रक्षितव्यमासीत्, यतोऽहं तु ते सदाशयेन प्रेम कृतवानासम्। अस्यामवस्थायां त्वदीयममुं दुर्व्यवहारं प्रेक्ष्य मे स्वान्ते दुःखं कथं न भवेत्? त्वया मत्तश्छन्नं स्वधश्रवा सह सम्बन्धो योजितस्तस्मिन्नेव सौख्यं बुद्धं, मदनुमत्यादानं चापि नोचितं ज्ञातम्। अस्य परिणामोऽपि यो भावी स जात एव । यतःतादृशी जायते बुद्धि-र्व्यवसायोऽपि तादृशः । सहायास्तादृशाश्चैव, यादृशी भवितव्यता
॥६६॥ यत्र कुमतिस्तत्रापदामेव निवासो भवति। तवाहं प्रियो नासम, धश्रूः प्रियाऽऽसीत्तयैव वधूवा सह सुखं कुर्विति तव
|| २३६ ॥