________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः प्रायस्तवाऽऽनन्दथुरेधिष्यते चैवं भवनं स्वाभाविकमेवास्ति । ममापि प्रत्यहं तावकी स्मृतिरायाति परं सहैव त्वदीया सा करवीरयष्टिरपि न विस्मर्यते । त्वया मत्स्नेहस्य चिन्ता न कृता, वश्रूवचनमागत्य ममोपेक्षा कृता । स्मृतेऽस्मिन् वृत्तान्ते मदीयं मनश्चेखिद्यते, परमत्र ते को मन्तुः ? एतदर्थमहं त्वामपराधिनीं न मन्ये। यतः समस्तः संसार एतदेव कथयति यत स्त्री कस्यापि न भवति । उक्तमपि
चतुरः सृजता पूर्व - मुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः
Em
योषिदेकत्र स्वभर्तारमपि विक्रेतुं, स्तेनलुण्टाकानां च संमुखीना भवितुमर्हति अन्यत्र लोकवञ्चनाय मार्जारनेत्रदर्शनादपि भयेन भृशं कम्पते, अतो बुधैरुक्तमस्ति यत् स्त्रीणां विश्वासो न कार्यः । ताः स्वान्तेऽन्यच्चिन्तयन्ति, बहिरन्यद् ब्रुवते, कञ्चिदक्षिसंकेतेनान्यं करसंज्ञया संकेतयन्ति, तासामिदमखिलं चरित्रं परमेश्वरं विनाऽन्यः कोऽपि ज्ञातुं न प्रभुर्भवति । मनुष्यः कदाचित्तारकवृन्दं गणयितुमलं भवति, पारावारपयोऽपि प्रमातुं शक्नोति, परं स्त्रैणचरित्रपारं कदापि नैति ।
यतः
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ।
हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् ? ૫૬કા स्त्रीभिरिन्द्रचन्द्रादिसदृक्षा अपि निजजाले पातिताः सन्ति, तदा पामरजनानां का वार्ता ? नार्यो यद्यप्यबला उच्यन्ते, परं
|| २३८ ||