________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः स्त्वदीयदृगनुग्रहस्तदपि धिग धिगैन्द्रं पदम् ॥२॥
इह तल्लाभेन नूनं वञ्चितेन मया स्थीयते, अतोऽधुनेश्वरं प्रतीयमेव प्रार्थना प्रवर्तते-स शीघ्रमेवावयोर्मिथः संगमयतु । यस्मिन्दिने क्षणे चाऽस्मत्संगमो भवेत्तदिनं क्षणं च धन्यं स्यात् । त्वया संगते सर्वमुदन्तं सविस्तरं कथयिष्यामि, पत्रेऽधिकलेखोऽसाम्प्रतम्। सेवकेनाऽपि सर्वा वार्ता न निगाद्यते, तस्मादिदानीमेतावद्भिरेव वृत्तान्तैः संतुष्टिविधेया ।
___ इत्थं सेवकं प्रबोध्य राज्ञा चन्द्रेणाभापुर्यां स विसृष्टः, यथासमयं तत्र गतः, स गुप्तेन मन्त्रिणा संगतः । राज्ञा चन्द्रेणामात्यनामाङ्कितमप्येकं पत्रं दत्तं, धीसखस्तत्पठित्वा भृशं जहर्ष। सेवकेन निवेदिते स तं गुप्तमेव गुणावलीसमीपं निन्ये । तत्र तेन स्वयं निजहस्तेन तस्यै पत्रमर्पितम, पत्रं पठित्वा तल्लोचनाभ्यामश्रुधारा चचाल, सा स्वहृदयेन श्लेषं श्लेषं तत्पत्रं मुहुर्मुहुः पपाठ । तत्पत्रमित्थमासीत्- प्रिये ! गुणावलि ! अहं भगवतोऽनुकम्पयाऽत्र विमलापुर्या प्रसन्नस्सन्नपि तावकीनं कुशलोदन्तं ज्ञातुमत्युत्कण्ठितो भवन्नस्मि । मनस्येपैवेच्छा जायते, यदिदानीमेवागत्य त्वया संगच्छेय परं त्वमवगच्छसि-विमलापुर्याभापुर्योर्बह्वन्तरं विद्यते । ततः पत्रं प्रेषयामि, देशान्तरस्थयोः सुहृदोः पत्रेणैव मिलनं भवति । अत्रत्योऽयं समाचारोऽस्ति, यत्सूर्यकुण्डप्रभावान्मे पुनर्मनुष्यत्वप्राप्तिर्जाता | नूनमस्य तीर्थस्य महामहत्त्वं वर्तते, अतोऽस्य यावती प्रशंसा क्रियेत, तावत्येवाणूयते । ममोद्धारस्येमा वार्ता ज्ञात्वा ध्रुवं ते प्रमोदो भविष्यति । अनेन पत्रेण
|| २३७ ॥