________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः
गुणावल्या समं पत्रव्यवहारः
गुणावल्या रहसि संगते त्वं मन्मुखेन कुशलप्रवृतिं पृच्छे:, तां च कथयेः कथङ्कारमपि चिन्तां न कुर्यात् । पुनस्तस्या एतदपि निवेदनीयम - यन्महाराजेनोक्तमस्ति द्रागेवैत्याहं त्वच्चिरकालिकवियोगदुःखं हरिष्यामि । वयं पुनः पूर्ववदाभापुर्यां राज्यं करिष्यामो दुर्जनाश्च करौ मर्दन्तः स्थास्यन्ति । अत्र सिद्धाचलतीर्थस्थसूर्यकुण्डमहिम्ना मे मनुष्यत्वप्राप्तिर्जाता, परमहमत्र सुखेन तिष्ठन्नपि त्वद्विरहात्स्वजीवनमसारं मन्ये ।
I
यतः
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्जायते, माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते । रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते, हा हन्त ! प्रमदावियोगसमयः संहारकालायते
॥६१॥ अतःपरं त्वां त्वद्धिताय सूचयामि वश्रूवचनमङ्गीकृत्य त्वं मां न विस्मरेः । देशान्तरीयमहासुखसम्पत्त्यपेक्षया स्वदेशी - याल्पसुख-सम्पदपि निजेष्टतमाङ्गिनां भवतीति मम तत्रागमने काचिदापत्तिर्नैव तथाऽत्रापि मे देवगुरुकृपया किञ्चित्कष्टं न वर्तते, तथापि तत्रागत्य तवामृतमयवचनश्रवणादिमिलनसुखस्य तीव्रेच्छया बाध्यमानोऽस्मि ।
किं बहुना
त्वदीयमुखपङ्कजं यदि विधोरलं वार्तया,
तयाधरसुधा यदा भवति किं सुधा नो मुधा ? | त्यदङ्गपरिरम्भणं यदि कृतं सुधागाहनै
|| २३६ ।।