________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः प्रेम सत्यं तयोरेय, ययोर्योगवियोगयोः । वत्सरा वासरीयन्ति, वत्सरीयन्ति यासराः ॥५८॥
अतोऽधुना मे निजोक्त्यनुसारेण झटित्येव तया सह संगमनीयम् । संसारस्याप्ययं नियमोऽस्ति, यद्यो हृदयेन येन समं यथा प्रेम करोति तस्यापि तेन सह निष्कपटभावेन तथैव क्षीरनीरतुल्यं प्रेम कर्तव्यम् । तथा चोक्तम्क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रागम, युक्तं तेन जलेन शाम्यति सतां मैत्री भवेदीदृशी ॥५९॥
गुणावली विमातुरुक्ताववश्यमागता, परमत्र कश्चित्संदेहो नास्ति, यत्सा मय्यत्यादरं विदधाति स्मेति ममापि जीवनपर्यन्तं तदस्मृति!चिता। इत्थं वार्ता मुहुर्ध्यायमान एव प्रातरभूत्ततः कृतनित्यक्रियेण राज्ञा चन्द्रेण गुणावल्यै पत्रं व्यलेखि तच्चैकस्मै सेवकाय दत्त्वोक्तम्-इदं पत्रमाभापुर्या नीत्वा विजने सचिवाय दातव्यम्। स चैतद्दलं गुणावल्याः समीपं प्रापयिष्यति, तत्र तव गमनोदन्तः कस्यापि वेदनीयो न भाव्यः । यतः सर्पादप्यतिदुष्टा मम विमाता त्वदशुभकारिणी भविष्यति । यतःसर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । सर्पो दशति कालेन, दुर्जनस्तु पदे पदे
॥६०॥
|| २३५ ।।