________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः
I
गुणावल्या समं पत्रव्यवहारः तदानीं प्रेमलया ध्यातम् जनानां स्वस्वामिदेवस्य कोऽपि प्रभावः प्रदर्शनीयः । अतो द्रुतमेव सा राजास्थानीमुपेत्य राज्ञश्चन्द्रस्य चरणौ प्रक्षाल्य तदेव पादोदकं नृपात्मजस्य कनकध्वजस्य कार्य सिषेच । सिक्त एवाङ्घ्रिजले सद्यः कनकध्वजकुमारस्य कुष्ठव्याधिर्निववृते । तत्काले एव राज्ञश्चन्द्रस्य जयारावं कुर्वद्भिर्देवैराकाशात्पुष्पवृष्टिस्तदुपरि कृता । ततः कुमारकनकध्वजोऽपि निजोपकारिणश्चन्द्रस्य चरणयोः पपात । तदा सर्वे सभासदोSमुमलौकिकं चमत्कारं विलोक्य विस्मयमापन्नाः, पुनरनया घटनया भूजानेश्चन्द्रस्यापि भूतले बहुला सुयशोवृद्धिर्बभूव । राज्ञा मकरध्वजेन सिंहलेश: कियद्दिनानि यावत् स्वातिथिरूपेण तत्रैव स्थापितश्चान्ते सम्मानेन स स्वदेशे विसृष्टः ।
तत्रैव सुखेन कियद्दिने गतेऽन्यदा निशीथे जाग्रतः पूर्वापरवार्तां ध्यायतश्चन्द्रस्य गुणावल्याः स्मृतिरागता स मनसि वक्तुं लग्नः - अहो ! अहं त्वत्र सुखे समयं गमयन्नस्मि, परं गुणावल्याः कालो न जाने कथं निर्गतो भवेत् ? ।
यतः
वल्लभोत्सङ्गसङ्गेन, विना हरिणचक्षुषः । राकायिभावरीजानि-विषज्यालाकुलायते
॥५७॥
तत आभापुर्या गमनसमये मया तस्यै वचनं दत्तं यन्मनुष्यत्वावाप्त्यनन्तरं सपद्येवाहमागत्य त्वया संगंस्ये, परमत्र प्रेमलाप्रेमपाशबद्धत्वादहं तां गुणावलीं नितान्तमेव विस्मृतवान् तन्नोचितम्।
यतः
।। २३४ ।।