________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥५५॥
पुनरेभिस्तु प्रकारान्तरेणाऽस्माकमुपकृतमेवाऽस्ति । चेदेमिः षड्यन्त्रमिदं न रचितं भवेत्तदाऽऽवयोरयं सम्बन्धः कथं युज्येत? जगति शुभप्रतिदानाय बहवो जना शुभं विदधति, परमपकृते कृतोपकार एव प्रकृतिसज्जनो बोद्धव्यः । यतःनाहिताय हिताय स्यात्, महान् संतापितोऽपि हि । पश्य रोगापहाराय, भवेदुष्णीकृतं पयः
॥५६॥ अतोऽतिरिक्तो द्वितीयोऽयमुदन्तोऽस्ति, यदेतेषां मोचनेन भवद्यशः समेधिष्यते, जना भवतः श्लाघां च करिष्यन्ति । चेद् भवानेतद्विचिन्तयन् भवेत, यदपराधिनोऽवश्यं दण्डनीयाः, येन तेषां स्वकृतावनुतापो जायेत। परमहं भवन्तं ब्रवीमि-यदेते स्वागोमितं पर्याप्तदण्डं मुक्तवन्तः । एषु यद् व्यतीतं तदेवैषां शिक्षाग्रहणाय बहुलं विद्यते । अतःपरममी पुनरीदृशीं दुष्कृति कदाचिदपि न करिष्यन्ति । पुनर्यद्येषु छलप्रपञ्चकार्येषु भवान् निजाङ्गजाया एव कर्मणां विपाकं मन्यते, तदा भवता एतदपि मन्तव्यं भवेत्, यदिमे तु निमित्तमात्रमेवास.नेतेऽन्यत्कर्तुमेव किं शक्नुयुः ? सिंहलाधिपतनयोऽपि कुष्ठरोगाभिभूतोऽस्ति, अत एभिर्यदकारि तत्पुत्रप्रेमप्रेरणयैव कृतं, अर्थतेषु दयापूर्णव्यवहार एव करणीयः ।
राज्ञो मकरध्वजस्य मानसे चन्द्रोक्तवार्ताया महाप्रभावोऽपतदिति सोऽपि तद्वचनमन्यथा कर्तुं न शक्नोति स्म । तेन तत्क्षण एव तदिच्छानुसारं पञ्चाप्यपराधिनो बन्धनमुक्ताः कृताः ।
|| २३३ ||