________________
चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः
गुणावल्या समं पत्रव्यवहारः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य त्रयोविंशपरिच्छेदे गुणावल्या समं
पत्रव्यवहारः
—
ससचिवः सिंहलाधीशो राजसमितावानीयते स्म दृष्ट एव तस्मिन् राज्ञा मकरध्वजेन सकोपमुक्तम्- हे दुष्ट ! सिंहलेश ! त्वयेदं किं कृतम् ? राजपुत्रो भूत्वाऽपि त्वया मया सममिदं शत्रुत्वं कथं बद्धम् ? त्वया शयानः केसरी निजविनाशाय कथं जागरितः ? त्वदर्थं त्विदं हास्यकारणं जातं मदङ्गजायास्तु प्राणापहारि कार्यं विनिर्मितम् । त्वया प्रथममहं छलितः, पश्चान्मे दुहिता कलङ्किता । त्वदीयस्यास्याशुभकृत्यस्यापि कश्चित्सीमा वर्तते ? अनेन कुकृत्येन तवायुरल्पमहं मन्ये, अतः परं त्वं चिरं जीवितुं नार्हसि । पुनस्त्वादृशस्य पापिनो मुखावलोकनमपि महत्कल्मषजनकमस्ति । इत्थं भृशं तिरस्कृत्य सिंहलाधिपादेर्वधाय राज्ञा मकरध्वजेन घातुका आदिष्टाः । अक्षम्यागस्त्वान्मौनिनस्ते स्वरक्षार्थमपि किञ्चित्कथनसाहसिका न बभूवुः, ते द्रुतमेव मृत्यवे सज्जिताः संजाताः । परं परमोपकारिणा राज्ञा चन्द्रेणैतन्नादृश्यत, अतस्तेन सपद्युत्थाय व्याहृतम् - राजन् ! एते पञ्चजना भवच्छरणागताः सन्ति, तत एषां प्राणापहरणं न वरम् । यद्यपकारिभिः सत्राऽपकार एव क्रियेत, तदा सदसतोः संसारे को भेदो भवेत् ? ।
|
यतः
सुजनो न याति विकृतिं, परहितनिरतो विनाशकालेऽपि ।
|| २३२ ।।