________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम्
यतः
पिता वा यदि वा भ्राता, पुत्रो वा यदि वा सुहृत् । नीतिच्छेदकरा राज्ञा, हन्तव्या भूतिमिच्छता
॥५४॥ इति ध्यात्वा विमलेशेन स्वकर्मकरेभ्य आज्ञा दत्तासिंहलनृपादयो ये जनाः कारागारे रुद्धाः सन्ति, तान् सर्वान् मत्समक्षे समानयत। सत्वरमियमाज्ञा कार्यरूपेण परिणतीकृता, ते पञ्चाऽपि सत्यवृत्तकथनाय राजपर्षद्युपस्थापिताः ।
।। २३१ ।।