________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम् कोटरान्निरीय तदनुसरणं कृतम् । मार्गे हिंसकमन्त्रिभृत्यैरहं गृहीतस्ते मां सिंहलेशाऽभ्यणं नीतवन्तः । ससचिवेन सिंहलाधीशेन विविधयुक्तिभिरहं रुद्धो यतः प्रेमलया कृतसम्बन्धो राजकुमारो जन्मतः कुष्ठ्यासीदिति हेतोः प्रेमलया सह मामुद्वाह्याऽनन्तरं गमनाय तेन भृशमहं कदर्थितः । ममाऽपि द्रागेव गन्तव्यमासीदतः कथञ्चिदहं प्रेमलापार्थतो निर्गत्य पूर्ववत्तत्रैव कोटरे गुप्तेन स्थितः। मत्पृष्ठेऽस्मद्विमाता गुणावली चापि तत्राऽऽगतवती । अथ वयं तत्राऽऽरूढा आभापुरीमागताः, द्वितीयघले मन्मातुरयमुदन्तो ज्ञातोऽभूत, ततोऽतिचण्ड्या तया विमात्रा मन्त्रबलेनाऽहं कुक्कुटो विहितः। अथ शैलूषशयाऽऽपतितोऽहमितस्ततो भ्रमन्नत्रेयिवान् । इह सिद्धशैलतीर्थमहिम्नः कथं मदुद्धृतिर्जाता कथं च मानुष्याप्तिरभूदिति सर्वं भवतो विदितमेवास्ति । राज्ञश्चन्द्रस्यास्यादमुमुदन्तं निशम्य मकरध्वजभूपतेर्मनसि महाननुतापोऽजनि । तेन मनसि ध्यातम्- अहो ? चतुरो भूत्वाऽप्यहं कुष्ठिकथने कथं विश्वासमागतः ? | स्वस्त्यस्त्वस्मै सुबुद्धिसचिवाय येन राजकुमारी सुरक्षिता, अन्यथा यावज्जीवनमिदं दुःखं शल्यवन्मम मर्मावित् स्यात् । ममाऽस्मादश्रेयसो मुक्तिरसंभाव्यैवाऽऽसीत् स कुष्ठ्यपि नितान्तदुष्टोऽविद्यत, यतः स निजगदसंगोपनाय मदीयां तनयां विषकन्यात्वेनाऽजूघुषत् । अद्यास्य कपटस्य सर्वाङ्गस्फोटनं जातं, तथ्योदन्तप्रकटनं चाभवत्- यतः पापघटोऽभग्नः कदापि न तिष्ठति। संप्रति तत्र कश्चित्सन्देहो नाऽवशिष्टः, यत्तैर्दुष्टैः संभूय भीषणषड्यन्त्ररचना कृता । इदानीं तेषां सिंहलनृपसचिवादीनामस्य कुकृत्यस्योचिता शिक्षा दातव्या । .
|| २३० ।।