________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम् जघास घासमेवासौ, बलीयर्दः कपर्दिनः
॥५३॥ परमतःपरं मामकीनेयमेव प्रार्थना वरीवर्ति यद् भवान् मयि मे पत्यौ चापि प्रचुरं प्रेम रक्षेत्, यतोऽस्माकं जीवनतरिरियं सम्प्रत्यवारीणे तटे तिष्ठति। राज्ञा मकरध्वजेनाभाषितम्-प्रियपुत्रि! एतेषां विषयाणां ते मनागपि चिन्ता न कर्तव्या । अस्या विमलापुर्या आभापुर्याश्चान्तराले यावन्तः प्रदेशा वर्तन्ते तान् सर्वान् राज्ञे चन्द्राय दत्त्वा मया तेषां स्वतन्त्राधिपः स कृतः । मत्कुले जनिमेत्य त्वया मदाननं समुज्ज्वलं कृतम् । त्वद्भाग्येनैव ममैतादृशस्य जामातुः प्राप्तिर्जातास्ति । त्वच्चरित्रं तु कवयो गास्यन्ति शास्त्रेषु च लेखिष्यन्ति । अहं दैवं प्रार्थयामि-यधुवां सुखिनौ रक्षेत्, युवयोरैवयं सुखं च प्रतिदिनं वर्धयेत् । एवं ब्रुवन् स ततो गतः, तेन राज्ञे चन्द्राय पृथग राजभवनस्य प्रबन्धः कृतः । तत्रैव प्रासादे राजा चन्द्रः प्रेमलया सह तिष्ठन् दोगुन्दुकदेववद् वचनातीतं सुखमन्वभूत्। अथान्यदा विमलेशेन विजने राजा चन्द्रः पृष्टः- हे चन्द्रनरेश ! भवानत्र कथमागतः ? प्रेमलया च कथं परिणयः कृतः ? कृते विवाहेऽकस्मात्केन कारणेन कथमितो द्रुतं गतवान् ? केन ताम्रचूडः कृतः ? एतत्सर्वं वृत्तान्तं ज्ञातुं ममात्युत्कण्ठा वर्ति चेदनापत्तिः कथ्यताम् । राज्ञा चन्द्रेणोक्तम्- भूपते ! दुष्टमन्त्रतन्त्रप्रवीणा मम विमाता वीरमत्याख्या गुणावलीनाम्नी च मे प्रियाऽस्ति । विमात्रा वंञ्चिता गुणावली तत्कथने पतिता, एकदोभे आम्रपादपमारुह्यात्रागमनाय प्रस्थानं चक्रतुः, तज्ज्ञोऽहमपि तदानकोटरे छन्नस्तस्थिवान् । वीरमती नगराद् बहिरामवृक्षमुद्याने संस्थाप्योत्तीर्य गुणावल्या सममुत्सवा-लोकनायाऽत्राऽऽगता, मयाऽपि तूष्णीं
|| २२६ ।।