________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
फलं कर्मायत्तं यदि किममरैः ? किं च विधिना, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति
महानन्दोत्सववर्णनम्
॥५०॥
I
|
मम साम्प्रतं स्वकृतकृत्ये प्रबलोऽनुतापो जायते । अथापि त्वं ममापराधमवश्यं क्षमिष्यसे, भूतपूर्ववार्ताश्च शाश्वतिकार्थं विस्मरिष्यसि । तयोक्तम् - पूज्यतात ! अत्र भवतो दोषलेशोऽपि नैव किन्तु सर्वं दूषणं मत्कर्मणामेव वर्तते । समस्तप्राणिभिः सुखदुःखे स्वकर्मानुरूप एव प्राप्येते । अन्यत्सर्वं निमित्तमात्रमेव भवति, एतादृशः सत्पतिर्मया भवद्भाग्येनैव प्राप्तोऽहं तु निर्गुणाऽस्मि, भवता गतवार्ता कदापि नैव स्मरणीया । यतः कदाचित्कुसन्ततिरुत्पद्यते, परं जनकौ कुजनकौ न जायेते ।
यदुक्तम्
गते शोको न कर्तव्यो, भविष्यं नैव चिन्तयेत् । वर्तमानेन योगेन वर्तन्ते हि विचक्षणाः
अपि च
माता मित्रं पिता चेति, स्वभावात्त्रितयं हितम् । कार्यकारणतश्चान्ये, भवन्ति हितबुद्धयः
/
॥५२॥
किन्तु येन दुर्जनेन भवान् भ्रमे पातितस्तदीयमपि श्रेयो भवतु । यदि स दुर्जनो न भवेत्तदाऽहं जगति ख्यातिं कथं यायाम् ? मम भवत्पूर्वाचरिते मनागपि मन्युर्नाऽस्ति यतस्तदहं स्वभाग्यचक्रविरुद्धभ्रमणमेव मन्ये, तत्र भवतः को दोषः ? |
यतः
न देवसेवया याति, कर्मबन्धः परिक्षयम् ।
|| २२८ ||
॥५१॥