________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम् तु प्राच्यमपि निजं कष्टं शनैः शनैर्विसस्मार, परं राज्ञो मकरध्वजस्य स्वप्राक्कृतकृत्यर्थं महापश्चात्तापोऽभवत् । सोऽन्यदा निजतनयाऽभ्यर्णमागतः साम्बुनेत्रो वक्तुं प्रचक्रमे- प्रियपुत्रि ! अहं त्वत्तः क्षमाप्रार्थनार्थमागतोऽस्मि । मम निजाविचारिते कार्ये पश्चात्तापः समुत्पद्यते, यतः षडधिकं दशवर्ष यावन्मया जात्वपि प्रेमदृष्ट्या त्वं न दृष्टा । जनको भूत्वाऽपि मया पितृकर्तव्यं नाऽऽचरितं, कुष्ठिकनकध्वजकुमारकथनेन त्वां विषकन्यां मत्वा ते मृत्युदण्डो दत्तस्तदा चेन्मयका सचिवोक्तिर्न स्वीकृता भवेत्तदा तत्परिणामः कीदृगशुभ आगच्छेत् ? परं तदानीं तव रक्षा त्वद्भाग्येनैव विहिता। यतःऔषधं मत्रवादं च, नक्षत्रं गृहदेवता। .. भाग्यकाले प्रसीदन्ति, चाभाग्ये यान्ति विक्रियाम् ॥४९॥
प्रत्युत मया तु त्वत्कष्टदाने काचिन्यूनता नावशेषिता । त्वं तु प्रथमत एवाऽऽलपन्त्यासीत् यन्मे पाणिग्रहणमाभानरेशेन सह जातं, परमहं तेषां धूर्तानां वागजालेऽपतम् । मन्मतिरेव भ्रष्टा जातेति ते यथार्थपतिर्मया नोपलक्षितः । क्वायं चन्द्रो नृपः क्व स मण्डलकी ? उभयोर्मेरुसर्षपयोरिवान्तरमस्ति। प्रियवत्से? तव पूर्वकर्मैव प्रबलं, येनाशुभतरमपि दिनमिदानीं शुभोदकं जातम्। यदुक्तम्नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगाः, विधिर्यन्धः सोऽपि प्रतिनियतकमैकफलदः ।
|| २२७ ।।