________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम् ध्वजपताकादयः प्रस्फुर्यन्ते स्म, नटा वाराङ्गनाश्च नरीनृत्यन्ते स्म। इत्थं प्रजाजनान् प्रसादयन् महामहेन राज्ञा चन्द्रेण विमलापुर्या प्रवेशः कृतः । यथोक्तम्वाद्यानि केचित्खलु वादयन्ति, प्रोच्वैर्यशो गायति बन्दिलोकः । दीनाश्रितेभ्योऽतुलदानमाने, यच्छन्ति नृत्यन्ति च वारवध्वः॥४८॥
तदानीं नागरिकाः स्त्रियः पुरुषाश्च गवाक्षाट्टालिकाचन्द्रशालाधारूढा राजानं चन्द्रं निरीक्षितुं प्रेमलायै चाऽऽशीर्वचनं दातुं लग्नाः। जनता यदा राजमन्दिरासन्नमियाय तदा राजा चन्द्रो विमलेशमकरध्वजश्च गजादुत्तीर्णवन्तौ । तत्क्षणे राज्ञा मकरध्वजेनार्थिभ्यो दानं वितीर्य वस्त्राभूषणाद्यैस्तथाऽलकृतास्तोषिताश्च यथा गृहागतास्ते निजस्त्रीभिरपि नोपलक्षिताः । अथ शिवकुमारनटं राज्ञा चन्द्रेण स्वसन्निधावाकार्य तस्मै रूप्यकाणां लक्षं पारितोषिकत्वेनाऽर्पितम, येन तत्स्थितिर्नृपकल्पा बभूव । पुनस्तेषां नृपाणामप्युपायनदानेन सत्कृतिः कृता, ये तद्रक्षणाय ससैनिकाः संततं तेन सहैव तस्थिवांस आसन, राज्ञा चन्द्रेण तैः साकं सख्यं विधाय निजतुल्यं पदं तेभ्यः प्रदत्तम् । कतिदिनानि यावत्सर्वे जना आनन्दोत्सवं मानयन्त आसन्नगरेऽपि महामहः प्रवर्तते स्म । ततो राज्ञश्चन्द्रस्याऽनुमतिं गृहीत्वा सर्वे निजं निजं निकेतनं जग्मुः । सर्वत्रानन्दस्याऽखण्डं साम्राज्यं संस्थाप्यते स्मेव । इतः प्रेमला प्रहर्षेण तथा प्रफुल्लितशरीरा जाता यथा तत्कुचौ कञ्चुक्यां न ममतुः । अथास्या दुःखलेशमपि नाऽवाशिषत्सा
|| २२६ ।।