________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः महानन्दोत्सववर्णनम् ऽऽजीवनं सुखिनी जाता । अयमाभापुरीशोऽस्य पितुर्नाम वीरसेनोऽस्ति, सूर्यकुण्डपयःप्रभावादस्य कुक्कुटयोनितो मनुष्यत्वप्राप्तिर्जाता | सम्प्रति भवान् निजजामातरं पश्यतु, तथा तं सम्यगुपलक्षयतु। अस्मिन् संसारे बहुशः सरूपाः समानाकृतयश्च प्राणिनो दृश्यन्ते, परं भवजामातृसदृशो मर्त्यः काठिन्येन पुण्येन चैव प्राप्यते । भाग्येनाऽद्य मदीयं कलकं दूरीकृत्य चन्द्रमसोऽप्यधिकमहमुज्ज्वलीकृता । गिरिराजसेवयैवावयोराशा सफलीभूतेत्यह मन्ये । दुहितुरिदं वचनं निशम्य प्रहृष्टः सौराष्ट्रपती राजा मकरध्वजः प्रेमपूर्णदृष्ट्या राजानं चन्द्रं पश्यति स्म । श्वश्रवा मौक्तिकमयं वर्षणं कृत्वा जामातुः स्वागतं कृतं, श्वशुरेण च प्रेम्णा तत्कण्ठाश्लेषः कृतः । राज्ञश्चन्द्रस्याऽधीनस्था राजानोऽपि तं सादरं प्रणेमुर्नटमण्डल्या तु तच्चरणौ संस्पृश्य तद्गुणगानं चक्रेतमाम् । तत्रोपस्थिता जनताऽप्यसकृद्धर्षनादेन सह राज्ञश्चन्द्रस्य स्वागतकरणे कथमपि त्रुटिं न कृतवती । अथ सुवाद्यैः सह राजा चन्द्रो मकरध्वजश्चादिमद्वयोर्देवलोकयोरिन्द्रवत् शोभमानौ स्वस्वपरिकरैः परिवृतौ प्रभोर्गुणकीर्तनं स्तवादिकं च कुर्वन्तौ यदा गिरेरधोऽवतेरतुस्तदातिसमारोहेण नगरप्रवेशस्य महोत्सवः प्रावर्तत। राज्ञा मकरध्वजेनैको महासङ्घसमारोहः कृतस्तत्र राजा चन्द्रो महान्तमेकं गजेन्द्रमारूढः सर्वतोऽग्रे चेलिवानासीत् । तदुत्तमाङ्गे छत्रमुभयतश्चामरे च शोशुभतः स्म, राजा मकरध्वजोऽपि गजमधिष्ठित आसीत् । प्रेमलालच्छी रथस्थाऽन्येऽपि जनाः स्वस्वयोग्यवाहनारूढा आसन् । इत्थमत्याडम्बरेण सुसज्जितसङ्घोऽग्रे चचाल, तदानीं वाद्यानि वाद्यन्ते स्म, बन्दिजना बिरुदावलीमुच्चैरुच्चेरुर्याचकेभ्यो दानं दीयते स्म, सर्वत्र
|| २२५ ।।