________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम् च्छायामनादृत्य सकण्टकवृक्षाश्रयं को नामाऽनुमोदते ? भवदाराधनजलधरेण भवदावानलतापः शाम्यते । यतःअरिहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥४६॥
भवान् गुणमणिरोहणाचलोऽस्ति, परिषहोपसर्गादिसहने सर्वसहायते, कर्मकेसरिनिराकरणे साक्षादऽष्टापदोऽस्ति । हे अनन्तशक्तिशालिन् ! हे भगवन् ! मदीया केवलमियमेवाऽभ्यर्थनामम जन्मान्तरेऽपि स्वीया सेवाभक्तिर्दातव्या । एवं परमात्मनः स्तुत्यनन्तरं राजा चन्द्रो मनसि दध्यौ- अहो ! क्वाऽहं क्व चाऽयं गिरिराजः ? मम पूर्वपुण्योदयादेवाऽस्य सद्यात्राया लाभो जातोऽस्ति । यतःतैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं, सङ्गैिरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम्
इत्थं विचिन्तयन्तौ दम्पती जिनमन्दिराद् बहिरागतौ । तत्र चारणश्रमणमुनि प्रेक्ष्योभौ तमभिवन्द्य तदासन्ने धर्मोपदेशश्रवणं कर्तुं लगौ । अथ गिरिराजं प्रदक्षिणीकृत्य स्वमनुष्यत्वं सार्थकं मेनाते । इतो विमलापुर्यामेका दासी धावमाना राज्ञो मकरध्वजस्य समीपमागत्य तस्मै प्रमोदप्रवृत्तिं श्रावयन्त्युवाच- हे महाराज !
।। २२३ ।।