________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः
महानन्दोत्सववर्णनम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य द्वाविंशपरिच्छेदे महानन्दोत्सववर्णनम्
अथ राजा चन्द्रो भगवन्तमृषभदेवं स्तुवन्नूचिवान्- हे त्रिभुवनसमुद्धारक ! शान्तिसुधारसेन्दो ! भव्यजनाशाश्रय ! दिव्यसुरतरो ! भवोदधितारणसत्तरण्ड ! भवच्चरणारविन्दे चञ्चरीकायमाणाः सकलसुरेन्द्रा निलीनास्तिष्ठन्ति । अनन्तगुणवतो भवत आज्ञाखिलेऽपि जगति प्रवर्तते भवन्नामग्रहाशनिः प्राणिनामघपुञ्जमहीधरं विदारयति ।
किमधिकम्
यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि । स्वप्रवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद् भवान् ॥४५॥ अतोऽनुभवरससिन्धोर्भवतोऽभ्यर्णेऽन्ये सर्वे देवा भवत्सद्गुणौघैरगण्या भवन्ति । केवलज्ञानेन भवान् जगच्चक्षुरिवाऽस्तीति हरिहरब्रह्मप्रभृतयोऽपि देवा भवदग्रे खद्योतन्ति । चेत्समस्तमप्युदधिजलं मसीभूतं स्यात्तथापि भवदीया गुणा न लिख्यन्तेऽनन्तत्वात्। शिवगिरिगुहावास्तव्यः पञ्चाननो भवानिति भवत्सभायामच्युतेन्द्रादयो मृगनिभा दासायन्ते । अन्ये देवास्तु गजायन्ते यथा गन्धहस्तिनो मदगन्धात्सामान्यगजानां मदो गलति, तथैव भवद्गुणकीर्तनकालेऽन्यदेवानामपि मदो मन्दायते कर्मविषधरापसारकत्वाद् भवाननुपमस्तार्क्ष्योऽस्ति । ये भव्यजीवा भवन्तमभिष्टुवन्ति, नमन्ति च तेषां पुनरन्यदेवसमक्षे शिरो न नामितव्यं भवति, यतः कल्पतरु
I
।। २२२ ।।