________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः सूर्यकुण्डे कुक्कुटस्योद्धारः कोऽहं कस्मिन् कथमायातः, का मे जननी को मे तातः । इति परिभावयतः संसारः, सर्योऽयं स्वप्नव्यवहारः ॥३७॥
एतेषु कश्चिन्मामकीनोऽत्र दुःखे सहायको नाऽभूत् । पुनरहमेव कियत्कालं तदाशायां जीवंस्तिष्ठेयम् ? अत्राऽसारे संसारे तु सर्वः स्वार्थस्यैव सम्बन्ध्यस्ति । इत्थंभूता वार्ताश्चिन्तयन् कुक्कुटराजो वैराग्यं भेजे । यतःपुत्रमित्रकलत्रेषु, सक्ताः सीदन्ति जन्तवः । सरःपदार्णवे मग्नाः, जीर्णा वनगजा इव
૨૮ના स स्वान्ते संसाराऽसारतां चिन्तयन्ननन्तरं तत्र सूर्यकुण्डे पतनमेव वरमिति स्थिरीचकार | यतःउद्घाटितनयद्वारे, पञ्जरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्यं, प्रयाणेऽनिश्चयः कुतः? ॥३९॥
इत्थं ध्यायंस्तदानीमेव स कुण्डे निपपात । एतदवलोक्य क्षुब्धया प्रेमलयाऽऽलपितम्-हे विहङ्गराज ! त्वयेदं किं कृतम्? अधुनाऽहं गत्वा शिवमालां स्वपितरौ च किं कथयिष्ये ? मया ते किमपि कष्टमपि नाऽदायि । प्रायस्त्वया मत्परीक्षार्थमेवैवं कृतमिति लक्ष्यते, चेत्सत्यमिदमेव तहमपि त्वत्पृष्ठे स्थातुं नेच्छामि । या गतिस्ते भाविनी सैव ममाऽपि भविष्यति । यतःजीवति जीवति नाथे, मृते मृता या मुदा युता मुदिते ।
|| २१८ ।।