________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः
सूर्यकुण्डे कुक्कुटस्योद्धारः
मम विमाता तत्त्वतो मे वैरिणी विद्यते, यतस्तयैव मामकीनेदृशी दशा कृताऽस्ति। सकलोऽप्ययं संसारः स्वार्थपूर्णो वर्तते ।
यतः
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा:, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाज्जनो हि रमते नो कस्य को वल्लभः ॥ ३६ ॥
7
अत्र सारभूतं किमपि नास्ति, पुनर्नटैरहं सर्वत्र देशे भ्रामितः परं मे दुष्कर्मणोऽवसानं नायातम् । अहं मनुष्यत्वं विलोप्य कचवरखनकः कुक्कुटोऽभूवम् ! अधुनैतावद्दिनेषु गतेषु पुनर्मनुष्यत्वप्राप्तेराशा व्यर्थैवास्ति । एतादृश्याशा रक्षितव्यैव मे कथं भवेत् ? स्त्रियाः पार्श्वे खगीभूयाऽवस्थानं तु परं पामरत्वलक्षणमस्ति । तद्दर्शनं हृद्दाहकं कथं सह्यते ? मम सकलं यौवनं निष्फलमेव निरगमत् । मम दुःखस्मृतिरपि स्वान्तं नितान्तं खण्डशः करोति, अस्यामवस्थायां जीवनमपि व्यर्थम् । अस्यां दुराशायां कियन्ति दिनानि गमयिष्यामि ? इत्थं विहङ्गो भूत्वा स्थित्यपेक्षया मृत्युमिलनमेव सहस्रगुणं श्रेयस्करं विद्यते । अहमेतस्मिन् कुण्डे कथं न निपतेयम् ? यथैषां समस्तदुःखानामन्तमेत्य मत्कल्याणोदयो भवेत् । अत्र जगति कः कस्याऽस्ति ? कस्य माता कस्य पिता, कस्य स्त्री, कस्य नगरी, न कोऽपि कस्यचिदस्ति, एषु मोहकरणं निष्फलमेव ।
I
यतः
।। २१७ ।।