________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः
सूर्यकुण्डे कुक्कुटस्योद्धारः
सागराणां सहस्रं च, पूजास्नात्रविधानतः
૫ર્ક
मूलनायकस्य भगवतो भक्तिं विधाय तत्प्रधानचैत्याद बहिर्निर्गत्य प्रेमलया कुक्कुटराजं सार्थे नीत्वाऽन्यान्येषु चैत्येषु गत्वा गत्वा दर्शनं कृतम् । प्रान्ते भ्रमन्ती भ्रमन्ती सा राजादन - वृक्षान्तिकमागतवती तत्र भूमौ पतितानि पर्णानि कुक्कुटराजेन चञ्चवोत्पाटितानि तेन स मनस्येवातिप्रसेदिवान् । क्रमशोऽर्चनीयं सर्वविधिं प्रपूर्य प्रेमला स्ववयस्याभिः सत्रा सूर्यकुण्डं वीक्षितुं प्रस्थिता । निर्मलपयः पूर्णं पङ्कजैश्च सुशोभितं सूर्यकुण्डं तथा प्रत्यैयत यथा समतारसस्य कुण्डं किं न भवेत् ? तज्जलं संस्पृश्य शीतलः सुरभिर्वायुः प्रवहमान आसीदिति प्रेमला कुक्कुटराजं करस्थं कृत्वा तस्य कुण्डस्य तटे समुपविष्टा स्वर्गीयसुखानुभूतिप्रदं तद्वायुसुखस्पर्शमादातुं लग्ना । सूर्यकुण्डं वीक्ष्य पूर्वं प्रसन्नोऽपि ताम्रचूडाधिपः पश्चादतीतवर्तमानघटनां संस्मृत्य खिन्नमनाश्चित्ते चिन्तयितुं लग्नः - अहो! इत्थं तिर्यगवस्थायां मे षोडशाब्दा व्यतीयुः, कुत्र स्त्री ? कुत्र गृहम् ? क्वात्मीयस्वजनाः ? कुत्र च तद्राज्यम् ? इदानीं मदर्थं तेषां सर्वेषां भवनमभवनतुल्यमेवास्ति ।
यतः
इतो न किञ्चित्परतो न किञ्चिद्, यतो यतो याति ततो न किञ्चित् । स्वात्मावबोधादपरं न किञ्चिद्विचार्यमाणेऽपि जगन्न किञ्चित्
।। २१६ ।।
॥३५॥