________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः
सूर्यकुण्डे कुक्कुटस्योद्धारः
कदाप्यनृतं न भविष्यति । अत्र मादृशां दैवज्ञानां वचसि त्रिकालेऽपि सन्देहलेशो न विधेयो भवत्या |
यतः
दूतो न संचरति खे न चलेच्च वार्ता, पूर्वं न जल्पितमिदं न च संगमोऽस्ति । व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं, जानाति यो द्विजवरः स कथं न विद्वान् ?
॥३२॥
मौहूर्तिकीयामिमामुक्तिमाकर्ण्य प्रहृष्टया तया यथोचितदानेन सत्कृत्य स दैवज्ञो विसृष्टः पितुरादेशं चाऽऽसाद्याऽऽलीभिः सार्धं सिद्धगिरियात्रायै सा प्रस्थिता, कुक्कुटराजं चापि सह ललौ। शैलारोहणसमये तया कुक्कुटं पिञ्जरान्निष्कास्य स्वपाणावुपवेशितः। तदा तीर्थराजं सिद्धाचलं वीक्ष्य प्रहृष्टः कुक्कुटराजः स्वजीवितं धन्यं मेने ।
यतः
यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घेशार्हन्त्यपदकृत्, स जीयाद्विमलाचलः
ऊर्ध्वं गते शिवपदस्य शिखरमिव श्रीऋषभदेवचैत्यमदृश्यत। प्रेमलया तत्र प्रविश्य युगादिदेवस्य दर्शनं कृत्वा तस्याऽष्टविधाऽर्चा कृता। भगवतः श्रीऋषभदेवस्य दर्शनमवाप्य कुक्कुटराजोऽपि धन्यम्मन्यो जातः ।
यतः
शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् ।
२१५ ।।
॥३३॥