________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः
सूर्यकुण्डे कुक्कुटस्योद्धारः मानसं दुःखमुक्तं विदधानाऽऽसीत्तदैव तत्र शिवमालाऽऽगता, तया ताम्रचूडं स्वाङ्के निधाय तच्छरीरे सुगन्धिद्रव्येण संसिच्य तत्सन्निधौ सुखभक्षिकामिष्टान्नादि रक्षितं, तं तोषयितुं मधुरस्वरेण गायनं श्रावितम् । इत्थं कुक्कुटं प्रसादयित्वाऽनन्तरं तया प्रेमलां प्रत्यालपितम्-भवती चतुरो मासान् यावदमुं कुक्कुटं स्वीयपार्श्वे रक्षतु । चतुर्मास्यां व्यतीतायां यदा वयमितो गन्तुका भवेम तावद् भवत्यस्य पालनं सप्रेम करोतु | अहमप्यत्र प्रत्यहमेनमवलोकयितुमायास्यामि। चेच्चतुर्षु मासेष्वनेन भवत्याः कामः पूर्णो भवेत्तदैतस्याऽत्र मोचने मम काप्यापत्तिर्न भविष्यति ।
इत्थं शिवमाला रहस्यगर्भितां वाचमुक्त्वा स्वावासमायाता, परं सरलाशया प्रेमला तद्वार्ताया रहस्यं नाऽबोधि । सा तु कुक्कुटं क्रोडे कृत्वा भूयो भूयः पूर्ववत्तस्य भोजनलालनादिकरणे तन्मयी जाता, इत्थं कुर्वती बहुदिनानि गमयामास । प्रेमला सदैव कुक्कुटराजं स्वसमक्षे रक्षन्ती तदभक्तिं विदधाना तदग्रे समुपविष्टा शीतोच्छ्वासं मुञ्चन्ती लोचनाभ्यामश्रुधारां वर्षन्ती गद्गदगिरा निजकष्टं प्रकाशयामास । तदानीं प्रावृट्त्वादाकाशे कादम्बिनी व्यानशे विद्युद् विद्योतते स्म घनगर्जनं वृष्टिश्च प्रावर्तत । अनया वृष्ट्याऽखिले जगति प्रशान्तेऽपि विरहवह्निना दन्दह्यमाना सा प्रेमला त्वधिकं संतप्ता जाता ।
अत उक्तम्
गर्जति वारिदपटली, वर्षति नयनारविन्दमबलायाः । भुजवल्लिमूलसेके, विरहलता पल्लवं तनुते
।। २१३ ।।
મા