________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः सूर्यकुण्डे कुक्कुटस्योद्धारः स विज्ञेयो मनुष्येण, एष मे पूर्वमित्रकः
॥२६॥ अतस्तव समक्षेऽहं हृदयमुद्घाट्य निजदुःखं विलपामि। तवाऽवलोकनेन मे स्वान्तस्य बहुशान्तिप्राप्तिर्भवति । पुनर्ममैवं ज्ञातं भवति, यथाऽहं स्वप्रियमेव किं न पश्यामि ? परं हे पक्षिराज! त्वमपि तद्वदेव निष्ठुरो न भवेः, यतो बुडतस्तृणाश्रयोऽपि बलिष्ठो भवति । यथोक्तम्उत्तिष्ठेत्यपि सद्वाक्यं, पततो वै यथा बलम् । तथैव बुडतोऽपि स्या-तृणालम्ब परं बलम् अपि चवियोगविधुरायास्तु, पत्यु मापि मुत्पदम् । किं पुनस्तत्प्रियं वस्तु, सुयोग्यं शुभलक्षणम् ૨૮ના
प्रेमलायाः प्रेमपुष्टमिदं वचनं निशम्य कुक्कुटराजस्य हृदि महानेव तत्प्रभावः पतितः, परं पक्षित्वात्स तदुत्तरं दातुं न शशाक। इत्थं सौभाग्येन दम्पत्योः संगमे जातेऽपि कर्मजेन महदन्तरेण तयोस्तेन कोऽपि लाभो नाऽभूत् । यतःक्यचित्पाणिप्राप्तं घटितमपि कार्यं विघटयत्यशक्यं केनापि क्वचिदघटमानं घटयति । तदेयं सर्वेषामुपरि परितो जाग्रति विधायुपालम्भः कोऽयं जनतनुधनोपार्जनविधौ ॥२९॥ यदा प्रेमोन्मत्ता प्रेमला कुक्कुटराजाग्रे दुःखोक्त्या निज
|| २१२ ||