________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः सूर्यकुण्डे कुक्कुटस्योद्धारः हि। विवाहादर्वाक् तेन कदाचित्पत्रेणाऽपि ममोदन्तो न पृष्टः, कुत्र साऽऽभापुरी क्व चेयं विमलापुरी ? उभयोरियदन्तरं विद्यते, यत्तत्र मनसोऽपि गतिर्न संभाव्यते, तथाऽपि मन्नाथेन यथा व्यवहृतं, तथा कश्चिच्छत्रुरपि न करिष्यति । नाऽसावत्राऽऽगन्तुमर्हति, न चाहं तत्र गन्तुं शक्नोमि, अस्यामवस्थायां मदीयदिनानि कथं निःसरिष्यन्ति ? | यतःपदन्यासो गेहाद्वहिरहिफणारोपणसमो, निजावासादन्यद्भवनमपरद्वीपतुलितम् । वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः, पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः
ર૧ पुनरस्मिञ्जगति मयैतादृशः परोपकारिजनोऽपि न दृश्यते, यो मत्प्रियोपान्ते गत्वा तं बोधयित्वा तस्य निष्ठुरं स्वान्तमायेत्। षोडशाब्दे गतेऽपि यन्मानसे स्नेहो नाऽजनि, तस्य कठोरमनसं विनाऽन्यत्किं वाच्यम् ? मम पित्राऽपि तत्पृष्ठे मे बहु कष्टं दत्तम्, परं तन्यायमहं केन कुत्र च कारयेयम् ? अस्मिन् जगति स्नेहविधानं सुलभं परं तन्निर्वाहो दुष्करोऽस्ति । पुनर्यस्य मानसे प्रेमैव न, तेन सार्धं प्रेमकरणं तु ज्ञात्वा दुःखनिमन्त्रणमिव भवति। त्वं तद्गृहखगोऽसीति, त्वामवलोक्य मे मानसं पुलकितायमानं जातम् ।
यतः
यं दृष्ट्वा वर्द्धते स्नेहः, क्रोधश्च परिहीयते ।
|| २११ ॥