________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः ।
सूर्यकुण्डे कुक्कुटस्योद्धारः
अथ श्रीचन्द्राराजसंस्कृतचरित्रस्यैकविंशपरिच्छेदे सूर्यकुण्डे कुक्कुटस्योद्धारः
प्रेमलाया जनकेन कुक्कुटस्य पिञ्जर आसादित एव तया ततस्तं बहिर्निष्कास्य पाणौ चोपवेश्य तत्समक्षे नैजं दुःखं वक्तुमारेभेहे कुक्कुट! त्वं मे श्वशुरालयस्य महोत्तमः पक्षी वर्तसेऽद्य षोडशाब्दे तत्रत्यप्राणिना सह मम समागमो जातस्तव नगरस्य भूपो मे पतिरस्ति, परं यथा भिक्षुकेन रत्नं हारितं तथैव मयाऽपि स कराद् गमितः। तद्वियोगदुःखसन्तापशुष्कान्मे शरीरादस्थीनि निर्गतानि तथापि तस्य दर्शनं नाऽभूत् । अत उक्तम्परार्थानुष्ठाने जडयति नृपं स्वार्थपरता, परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः । परार्थश्चेत्स्वार्थादभिमततरो हन्त! परवान्, परायत्तः प्रीतेः कथमिव रसं येत्तु पुरुषः
॥२४॥ मयैतादृशः को मन्तुः कृतो येन तेनाऽद्यावधि मच्छुद्धिरपि न कृता? स मां परिणीयैकस्य कुष्ठिनो हस्ते समर्प्य गतः। एतेन तत्प्रतिष्ठायां कथमपि वृद्धिर्जाता भवेदित्यहं न वेद्मि, प्रत्युतैतेन मम जीवनं नष्टमभूत्। तस्मा एतत्सर्वं केन शिक्षितम्? चेदसौ गृहभारोत्थापनेऽशक्त आसीत्तदा तेन पाणिग्रहणमेव कथं कृतम्? करपीडनानन्तरमेव मत्तो रुष्टः कथं जातः? हे पक्षिराज! मया तु तव राज्ञा तुल्यो निःस्पृहोऽन्यो नरो जगति दृष्ट एव न
|| २१० ॥