________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः
कुक्कुटराजे प्रेमलायाः प्रेमभवनम्
I
राजा तं प्राप्य मोदमानो नटराजस्य कृपालुतां कीर्तयन् स्वाऽऽवासमाजगाम । ततो राजा प्रेमलां स्वनिकटे समाहूय प्रोवाचप्रियपुत्रि ! त्वदर्थमिमं ताम्रचूडं समानीतवानस्मि । अयं त्वया यत्नेन रक्षणीय इति कथयन् राजा कुक्कुटराजस्य पिञ्जरं स्वहस्तेन प्रेमलायै समर्पयामास । ततो यथा कश्चिन्निस्वश्चिन्तामणिं | कल्पतरुं वाऽऽसाद्यातिमोदेत तथैव साऽपि तमपूर्वकुक्कुटराजं प्राप्य तदर्थं नटान्प्रति वारंवारं धन्यवादं ददाना मुमुदेतराम् ।
|| २०६ ||