________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् स दास्यते, तदाऽहं मंस्ये, यद् भवता मवचनं मत्वा मद्दुहितुर्जीवदानं दत्तम् । एतदर्थमहं भवतश्चिराय ऋणी भविष्यामि, अतोऽधिकमन्यं मया किं वक्तव्यम् ? नटराजेनोक्तम्- राजन् ! भवान, विहङ्गमं साधारणं न जानातु । मद्बोधे त्वयमाभानरेश एवास्ति, अत एतावत्कालमेतदानस्येच्छा नाऽऽसीत्, परं यदा भवानेव स्वयमेतदर्थमायातस्तदा तद्दानास्वीकारमपि मे नोचितम् । ममाऽवस्था तु साम्प्रतमुभयतः स्पाशारज्जुरिव जायमानाऽस्ति । अत्रान्तर एव शिवमालया भाषितम्- देव ! अस्यैव कृते न जाने कियन्तो राजानो महाराजाश्चास्मास्वसन्तुष्टाः सन्ति, कियन्तश्च शात्रवं बद्ध्वा स्थिताः । अस्य पृष्ठेऽस्माभिर्बहुकष्टमपि सोढं, अत एतदर्पणार्थमनिच्छाभवनं स्वाभाविकमस्ति । परं भवत्तनया प्रेमला स्नेहला मम सत्या वयस्या विद्यते, इत्यहमेतद्विश्राणनेऽस्वीकारं कर्तुं न शक्नोमि | यतो नीतिशास्त्रेऽपि षड्विधं सुप्रीतिलक्षणं समुदितम् । यतःददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैवं, षड्विधं प्रीतिलक्षणम् ॥२३॥
राजन् ! भवान् सुखेन नयतु, युवयोः सदैव शमस्तु । अस्य प्राणेभ्योऽप्यधिका रक्षा कर्तव्या, आभानरेश एवायं बोद्धव्यश्च। अमुं सामान्यं पक्षिणं मत्वाऽस्य रक्षणे प्रमादो न विधेयः, अनेन भवत्सुतायाः सकलमनोवाञ्छापूर्तिर्भविष्यति । इत्याभाष्य नट्या शिवमालया कुक्कुटराजो राज्ञो मकरध्वजस्य हस्ते समर्पितः ।
|| २०८ ॥