________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः
कुक्कुटराजे प्रेमलायाः प्रेमभवनम्
I
दुःखिनीं कृत्वा वा त्वदिच्छाविरुद्धोऽहमत्र स्थातुं नेच्छामि । त्वदुपरि मे किञ्चिद् बलमपि नास्ति, मां तु त्वं यत्र नेष्यसि तत्रैव मे गन्तव्यं भविष्यति । यथाऽजापालकोऽजायाः कर्णं धृत्वा यत्र तां नयति, तत्रैव तस्या गमनीयं भवति । कुक्कुटस्येदं वचनमाकर्ण्य शिवमाला म्लानाऽऽस्या जाता, तस्या उभाभ्यामक्षिभ्यां वारिधारा निःसर्तुं लग्ना । अथ हृदयं निरुध्य तयोक्तम्- हे आभानरेश ! भवान् प्रेमलायाः प्राणाधारोऽस्तीति वृत्तं मे विदितं नाऽऽसीत् । अधुना मया ज्ञातुं शक्यते, यदत्र स्थितौ भवतस्तस्याश्च कल्याणमस्ति । साम्प्रतमहं भवतामस्मिन् कार्ये विरोधिनी न भविष्यामि ।
यतः
मा गा इत्यपमङगलं व्रज इति स्नेहेन हीनं यचस्तिष्ठेति प्रभुता यथारुचि कुरुष्वेत्यप्युदासीनता । किं ते साम्प्रतमाचराम उचितं तस्योपचारं यचः, प्रस्थानोन्मनसीत्यभीष्टमनुजे वक्तुं न शक्ता वयम् ॥२२॥
भवन्तं चेह सहर्षं मुक्त्वा गमिष्यामि । मम सहवासेन भवान् स्वप्रियया मिलन्नसि, एतन्मत्कृतेऽल्पानन्दस्य विषयो नाऽस्ति, अनेन मे सर्वा सेवा सर्वश्व परिश्रमः सफलो जातश्च स्वशुश्रूषणस्यैतत्फलं विलोक्य स्वजीवनमपि धन्यं मन्ये । इत्थमुभयोर्वार्तालापः प्रवर्तमान आसीत्, अत्राऽन्तर एव दुहितुरनुरोधेन राजा मकरध्वजः स्वयमेव तत्रागतवान् शिवकुमारेण च तस्य परमादरः कृतः । ततोऽवनीपेनाऽऽसनग्रहणानन्तरं शिवकुमारं प्रत्यभिहितम् - अहं तं कुक्कुटमादातुमेव भवत्पार्श्वे समायातोऽस्मि । चेद् भवता सहर्षं
।। २०७ ।।