________________
चन्द्रराजचरित्रम् विंशः परिच्छेदः
कुक्कुटराजे प्रेमलायाः प्रेमभवनम् प्यंशो वर्तते, अतोऽमुं स्नेहं त्वहं कथमपि न विस्मतुं शक्नोमि ।
यतः
—
उपकारः कृतोऽल्पोऽपि सतां याति न विस्मृतिम् । करम्बभोजनं यध्याः, कुमारनृपतेरिय
॥२०॥
त्वया मयि या योपकृतिः कृता सा मम सम्यक् स्मृतिरिति तव स्वाऽऽस्येन निजवर्णनस्य प्रयोजनं नास्ति । पुनर्नवाब्दिकस्नेहस्य परित्यागोऽतिदुष्करो वर्तते, तव संगो मे भाग्येन जातः, एवंभूतसंगस्य परित्यागो मूर्खेणैवेष्यते, परं हे नटपुत्रि ! एतत्सर्वं जानन्नप्यहमेतत्कृत्यं कर्तुं कथमुद्यतोऽस्मि, तस्य मुख्यकारणं ते ज्ञापने काप्यापत्तिर्न विद्यते । शृणु-अत्रत्य राजकुमार्याः प्रेमलायाः परिणयो मया सहैवाऽजनि अस्यैवोदवाहस्य कारणेन मे विमात्रा रुष्टभूतयाऽहं खगो विहितः । सम्प्रत्यस्य वृत्तस्य स्मृतिमात्रेणैव मे हृदयं विदीर्यते, परं दैवेन दत्तं सुखं दुःखं वा सोढव्यमेव भवति निखिलचराचरैर्जगति ।
यतः
च्युत्वा नृपतिकिरीटा - त्पतितं भूमौ तिरोहितं रजसा । विधिविलसितेन रत्नं, जनचरणविडम्बनां सहते
॥२१॥ त्वया वीरमतीतो विमोच्याऽहमत्राऽऽनीतः, अतस्तवोपकृतिरवश्यं मया मन्यते, परं प्रेमला मद्वियोगेन दुःखीयतेतराम् । तस्या इदमपि ज्ञातं न, यदिह जन्मनि पुनः पतिसंगमो भविष्यति न वेति ? अतोऽत्र मे स्थातुमिच्छा भवति किन्त्वेतत्कार्यं तदैव संभाव्यते, यदा त्वमेतदर्थं सहर्षं मामादेशं विदधीथाः । त्वां
'
।। २०६ ।।