________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् मन्तुरभूत् ? येन मय्यसन्तुष्टो भवान, मया जात्वपि भवत्सुसेवायां त्रुटिर्न कृता, सदैव स्वप्राणवद् भवान् रक्षितः । ज्ञातेऽज्ञाते च न किमप्यपराद्धम, भवत्कृतेऽनेके राजानो महाराजादयश्च मय्यप्रसन्ना जातास्तथापि शिरसि निधाय भवन्तं चतुर्दिक्षु भ्रान्ता | जगति घटिकामात्रकृतेऽपि केनचित्सम्बन्धो जायते, स तु तस्य जीवननिहिं करोति, पुनरावयोर्नवाब्दिकस्य प्राचीनः सम्बन्धो विद्यते, एवं सत्यपि मया न ज्ञायते यदद्याकस्मिकोऽस्येष्टसम्बन्धस्य विच्छेदो भवता कथं क्रियते ? हे पक्षिराज ! भवदादेशेन मया वीरमतीपार्थे-ऽन्यं पुरस्कारमयाचित्वा भवन्मार्गणमेवोरीचक्रे, भवता चाप्यद्य यावदस्मासु दृढस्नेहो रक्षितः, परमद्याकस्माद् भवान् कुतोऽस्माभिः पृथग बुभूषुरसि ? भवति गते मम सेवायाः प्रत्युपकारफलदायी कः स्यात् ? किं भवान् कस्यचिद्वञ्चकस्य वचने समायातोऽस्ति ? अन्यथा पुनरीदृशो निःस्पृहः कथं भवेत्? यद्येवमेव कर्तव्यमासीत्तदा पूर्वमेतावनस्माकं स्नेहः कथं दर्शितः? शिवमालाया दुःखपूर्णमदः कथनं निशम्य कुक्कुटराजेन स्वगिरोक्ता सा-शिवमाले ! त्वमेवं कथं कथयसि ? नाहमज्ञः किन्तु सर्व जानामि, सतां वियोगः प्रतिक्षणं शूलवद् हृदयं दुनोति । यतःअत एव हि नेच्छन्ति, साधयः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भेषजम् ॥१९॥
परं तेषां हादं तु जात्वपि न मुच्यते, पुनस्तव स्नेहस्तु तस्मादसाधारणप्रेम्णोऽप्यधिकोऽस्ति । अत्र त्वत्स्नेहे तूपकारस्या
|| २०५ ||