________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् यद्यप्यत्र विषये मम किमपि प्रभुत्वं नाऽस्ति, तथापि त्वमेकः पुरुषरत्नमतो विवासोऽस्ति, यत्त्वं मदीयेच्छां निश्चयं पूरयिष्यसि। यत:उत्तमोऽप्रार्थितो दत्ते, मध्यमः प्रार्थितः पुनः । याचकैर्याच्यमानोऽपि, दत्ते न त्वधमाधमः ॥१७॥
नृपोक्तं निशम्य नटोऽवोचत-धराधिप ! अयं कुक्कुटस्त्वस्माकं सर्वस्वमस्ति । स कथमप्यस्माभिर्दातुं न शक्यते, पुनरपि वयं गत्वा तं कुक्कुटं प्रार्थयामः | चेत्तस्याऽत्राऽऽवासेच्छाऽभविष्यत्तदा तमत्राऽवश्यं सहर्षममोक्ष्याम । इति कथयित्वा शिवकुमारः स्वोत्तारकमेत्य शिवमालासमक्षे कुक्कुटराजाय सर्वं वृत्तं न्यवेदयत्। तदाऽऽकर्ण्य प्रमोदं प्राप्तः स मानसे ध्यातवान्- इदं तु सुशोभनं जातमातुराऽनुकूलं वैद्योपदिष्टमिव । अस्य राज्ञः, एतन्नगरस्य, अस्याः कामिन्याश्च संयोगं विनाऽस्य मिलनसौभाग्यस्य कदा संभव आसीत् ? एतत् कस्याप्युरुश्रेयसः फलं बोद्धव्यम् । यतःकुलं विधश्लाघ्यं वपुरपगदं जातिरमला, सुरूपं सौभाग्यं ललितललना भोग्यकमला । चिरायुस्तारुण्यं बलमविकलं स्थानमतुलं, यदन्यच्च श्रेयो भवति भविनां धर्मत इदम् ॥१८॥
चेच्छिवकुमारो मामत्रैव मुक्त्वा गच्छेत्तदा चारुतरं स्यात्। तदानीमतिप्रसत्तिभाजं कुक्कुटं विलोक्य विदिततद्भावा शिवमाला खिन्ना भूत्वा तं प्रति वक्तुमारेभे- स्वामिन् ! ममैतादृशः को
|| २०४||