________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् साक्षात्संगमस्त्वसंभाव्यः, परं चेत्त्वं कथयेः, तदा नटपार्थादमुं ताम्रचूडं नीत्वा ते ददानि । तल्लालनपालनादौ त्वं संलग्ना स्थास्यसि, तेन तव दिनानि सुखेन निर्गमिष्यन्ति । एतदृते वयं कर्तुमेव किं शक्नुमः ? दैवसमक्षे केषाञ्चित्किमपि बलं नास्ति । यतःकर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः ?। वशिष्ठदत्तलग्नोऽपि, रामः प्रबजितो यने ॥१६॥
यतः कर्मणां गतिर्विचित्राऽस्ति, इष्टं वैद्योपदिष्टमिव तमिच्छन्त्या तया तातोदितं श्रुत्वाऽतिनिर्बन्धेन व्याहृतम्- पूज्यपितः ! अहं तु स्वयमेव भवते तदर्थं प्रार्थयामि । यथा भवेत्तथाऽवश्यं मेऽमुं तत्रत्यताम्रचूडं दापय । अयं मत्पतिगृहखगो वर्तते, अतो मेऽयं परं प्रियः प्रतिभाति, एनमतिथिं मत्वा स्वासन्ने रक्षितुमिच्छामि। ततोऽनुकम्पया कथञ्चिन्नटान प्रबोध्य तत आनीय स दीयताम् । राज्ञा झटित्येव निजभृत्येनाऽऽकारितोऽग्रेसरो नटस्तदानीमेवोपराजमागत्योपस्थितोऽभूत् । भूपतिना परमादरेण तं प्रति जल्पितम्-भोः शिवकुमार ! तव सार्थे योऽयं कुक्कुटोऽस्ति, स मे दुहितुः पतिगेहस्य वर्तते । इयं वार्ता गुप्ततमाऽस्ति, यतोऽतिस्पष्टतया कामपि वार्ता कर्तुमशक्तोऽस्मि, परमेतज्ज्ञापने मम काप्यापत्तिर्न विद्यते, यदद्य षोडशाब्दे गते मया त्वदास्याद् राज्ञश्चन्द्रस्य प्रवृत्तिः श्रुता । प्रेमलाया अप्ययं चरणायुधश्चित्तरञ्जकोऽस्ति, यतोऽयं तच्छवशुरगृह्यको विद्यते । अतश्चेत्त्वमिमं देयास्तदा न केवलं तवोपकारमेव मंस्ये, अपि तु तवोदितं सर्वमस्य प्रतिदानं दास्यामि।
|| २०३।।