________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् कथनेनाऽस्माभिरयं मार्गितः । इदं सकलं बलमस्यैव वर्तते, अस्माभिः समस्तैरेनं स्वभूपतिं मत्वाऽस्य दासत्वमङ्गीकृतमस्ति । अद्य नवाब्देभ्यो भ्रमन्तो वयमत्रागताः स्मः, तस्येदं वृत्तं निशम्य सौराष्ट्राधिपो राजा मकरध्वजः प्रससाद | प्रेमलाऽपि तन्नामा - ऽऽकर्ण्य मुमुदेतरामिति तस्याः स कुक्कुटोऽतिप्रियो भवितुं लग्नः, परं राजा चन्द्रः सम्प्रति कुक्कुटरूपेणाऽवर्तत, अतः सा तं ज्ञातुं न प्रबभूव । यदेयं नटमण्डली राज्ञो मकरध्वजस्य सविधे समायाता तदा प्रावृडारम्भोऽपि बभूव इतीतस्ततो भ्रमणमशोभनं मत्वा नटराजेन प्रोक्तम् - राजन् ! भवदादेशश्चेच्चातुर्मास्यं वयमत्रैव व्यतीयामः । तदा प्रसत्तिभाजा सादरं राज्ञाप्यभिहितम् - सुखेन भवन्तोऽत्र स्थातुमर्हन्ति । ममाप्यनेन परा मुद् भविष्यति, यतो मे भवद्भिर्भवदीयकुक्कुटेन चातिप्रेम जातमस्तीति राज्ञः कथनमवधार्य तत्रैव तस्थिवांसो नटाः प्रत्यहं राजसमितौ समेत्य गायनकलया नृपादीनां मनो रञ्जयामासुः । अथान्यदा राज्ञा मकरध्वजेन प्रेमलां प्रत्युक्तम्-प्रियपुत्रि ! पूर्वं तव कथनमसत्यं जानतो मेऽधुनाऽक्षरशस्तथ्यं प्रतिभाति । तथ्यं त्विदम्-कर्मणा यत्क्रियते तत्केनाऽपि कर्तुं न शक्यते । प्राणिमात्रेण सुखदुःखयोरनुभवं पूर्वकर्मैव कारयति ।
यतः
-
यथा धेनुसहस्रेषु, यत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म कर्त्तारमनुधावति
॥१५॥
नात्र सन्देहलेशोऽपि यत् परमात्मना कयाचिदपेक्षया कर्मैव कर्तृरूपेण परिणतीचक्रे । वत्से ! तव भर्तातिदूरे वर्तते तेन
|| २०२ ||