________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् __स यथा तद्धृदये प्रवेशाय यतमानो भवेत, तथा तद्धृदयं चच्चा प्राहरत्तथापि प्रेम्णा प्रेमला तत्पृष्ठं करेण प्रोज्छाञ्चकार | पिञ्जरतो बहिर्भूतोऽपि स प्रेमलाया हृत्पिञ्जरेऽवरोधितः, साऽपि तत्स्नेहकरणे मना बभूव । तस्याः पार्थे तिष्ठासुरपि स वचनशक्त्यभावात्किञ्चिद् वक्तुं न प्राभवत्तथापि तेनाऽनेकविधां प्रेमचेष्टां विधाय तन्मनोऽपहृतम् । तत्त्वतः सा मनसा कायेन च तस्य स्नेहं कर्तुं लग्ना, चिरान्महाराजेन कुक्कुटं पिञ्जरं पिधाय नटेभ्यः समर्पितस्सः । सहैव तेन पृष्टम्- भवद्भिः कुतोऽयं लब्धः ? तैर्जल्पितम्-इतोऽष्टादशशतक्रोशमिते दूरे देवपुरीवाऽऽभापुरी नाम नगर्यस्ति, तत्र राजा चन्द्रो राज्यं शास्ति स्म, परं तस्य विमात्रा वीरमत्या छन्नीकृतोऽस्माभिः स न दृष्टः, वीरमती तु राज्यं कुर्वती दृष्टा । अस्माकं क्रीडां विलोक्य प्रसन्नया तयाऽयं ताम्रचूड: पारितोषिकतया दत्तः । राज्ञश्चन्द्रस्य महिष्या गुणावल्याऽयं पालित आसीदिति श्रुतम्, सा चाऽस्योपरि महास्नेहं विहितवत्यासीदिति सा कथमप्येनं दातुं न प्रसेदुषी । परमेकदास्मिन् वीरमती रुष्टा सती मारणायोद्युक्ता दयालुभिर्वारिता, अयं च कृपया मरणाद्रक्षितः। यतःयदि ग्राया तोये तरति तरणिर्यधुदयति, प्रतीच्यां सप्ताचिर्यदि भजति शैत्यं कथमपि । यदि मापीठं स्यादुपरि सकलस्यापि जगतः, प्रसूते सत्त्वानां तदपि न वधः क्यापि सुकृतम् ॥१४॥
ततः कुक्कुटेन मृत्युदुःखान्मदात्मजा संबोधिता, तस्याश्च
|| २०१ ।।