________________
चन्द्रराजचरित्रम् - विंशः परिच्छेदः
कुक्कुटराजे प्रेमलायाः प्रेमभवनम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य विंशपरिच्छेदे
कुक्कुटराजे प्रेमलायाः प्रेमभवनम्
अथोभयोमिथश्चक्षुर्मिलने सति तयोश्चक्षुषी षोडशवर्षेश्चन्द्रचकोरयोरिव मिथो मिलनेच्छायाः प्रभूतत्वान्निर्निमेषेऽभूताम् । यथास्मरतोरभिलाषकल्पितान, बहुशः स्वप्नभुवः समागमान् । अपि दृष्टिपथं प्रपन्नयो-निविशवास चिरं मनस्तयोः ॥१२॥
तदानीं स्वदृष्टिपरावर्तने चैकतरोऽपि नैव समर्थोऽभवत्, भरतैरनेकविधमाख्यानं विमलापुरीशमकरध्वजाय राज्ञे गायनेनाऽश्रावि, यन्निशम्य राजा परां मुदमाप । अस्मिन्नेव काले तन्मनोऽभिताम्रचूडमाकृष्टमभूत, तस्मिन्दृष्टमात्र एव तन्मानसे राजहंसवत्तं प्रति हार्दभावः प्रादुर्बभूवेति नृपेण निजोपान्ते पिञ्जरमानाय्य कुक्कुटं च बहिर्निष्कास्य स्वाङ्के संस्थाप्य स्नेहं विधातुं प्रचक्रमे । तदनन्तरं प्रेमाधिक्येन प्रेमलयाऽपि स स्वक्रोडे स्थापितस्तच्छरीरस्पर्शन वियोगविधुरः कुक्कुटोऽपि नितरां जहर्ष, पुनः स्वान्तरिकवियोगदुःखकथनाशक्यत्वान्मनसि खेदमपि जगाम | यतःसमानकुलशीलयोः सुवयसोः परायत्तयोः, परस्परविलोकनाकुलितचेतसोः प्रेयसोः । तनुत्वमनुविन्दतोर्बहुविधिं व्यथां विन्दतोरशक्यविनिवेदना विरहवेदना वर्धते
॥१३॥ || २०० ।।