________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः स्वयं भ्रमति संसारे, स्वयं तस्माद्विमुच्यते ॥११॥
अद्यतनं दिनं मत्कृतेऽत्युत्तममस्ति, अतःपरं चेदेभ्यो जायाजीवेभ्यो लात्वा प्रेमला मां निजपाः स्थापयेत्तर्हि मे पुनर्मनुष्यत्वप्राप्तिः संभाव्यते, ममाऽखिलो मनोरथश्च सेत्स्यति । परमेषा वार्ता तदैव भविष्यति, यदा शिवमाला सहर्ष मां प्रेमलायै दद्यात् । यदा ताम्रचूडाऽधिप इत्थं विचारोदधौ निमग्न आसीत्तदैव प्रेमलाया दृक्पातस्तदुपर्यपतत् । ततः कृशाविनश्चरणायुधाधिपं प्रणमतो विलोक्य प्रेमलाया मनस्याश्चर्यमुदपादि तदा दत्ताऽवधाना सा कुक्कुटराजं विलोकितुं लग्ना, सोऽपि तत्संमुखं द्रष्टुं लगः । उभयोर्नेत्रे मिलिते सत्येवोभौ तथा प्रेम्णा मिथो गुम्फितौ यथोभयोः स्वशरीरादेरपि ज्ञानं नाऽतिष्ठत् ।
|| १६६||