________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
यतः
निष्कलङ्कङ्कलयापि जनो यः, संयुतः स खलु पूज्यते जनैः । भद्र! पश्य जडजोऽपि धार्यते, शङ्करेण शिरसा निशाकरः ॥१०॥
वियोगस्यान्तः
1
वंशादुत्तरिते सा भूजानिं प्रणम्यैकत्र स्थिता सर्वतः, प्रथमं राज्ञा तस्यै पुरस्कारं दत्त्वा सा सम्मानिता । ततः परितो रूप्यकवस्त्रभूषणादीनां जनताहस्तमुक्तवृष्टिः पपात, पश्यतामेव जनानां तदग्रे सर्ववस्तूनां महती राशिरभूत् । तदैव कुक्कुटराजस्य दृष्टिः प्रेमलायामपतत्तां दृष्टमात्र एव स उपलक्षितवांश्च षोडशवर्षानन्तरं स्वप्रियां निरीक्ष्य स्वात्मनि परां मुदमाप । जडवस्तुनश्चरणाभावादन्येन तस्य दूरत्वात्संगमोऽसम्भवः परं मानवानां चरणौ भवतस्तस्मात्सहस्रक्रोशव्यवधाने सत्यपि ते चेदिच्छन्ति तर्हि तेषामतिदुर्लभोऽपि प्रियसङ्गमो भवत्येव । प्रेमलां दृष्ट्वा कुक्कुटराजेन मनसि ध्यातम्- किं कुर्याम् ? अधुनाऽहं विहङ्गभूतोऽस्मि, अन्यथा तु यथेच्छमानन्दमनुभवेयम् । पुनर्मम प्रसूः कोटिवर्षाऽऽयुष्का भूयात्, ययाऽहं कुक्कुटो विरचितः इतरथाऽत्र कथमहमेत्य स्वप्रियया मिलेयम् ? एतेषां नटानामपि शुभं भूयात्, यैः सर्वत्र मे श्लोकं गायद्भिरहमत्राऽऽनीतः । अद्य मयाऽवश्यं कस्यचित्पुण्यात्मनो मुखमीक्षितं यतोऽद्यैतावच्चिरान्मे प्रियाया दर्शनं जातम् । अद्य ममाशुभकर्मक्षयाद् वियोगावसानमागत्य संयोगस्यारम्भोऽजनि ।
उक्तमपि
स्वयं कर्म करोत्यात्मा, स्वयं तत्फलमश्नुते ।
|| १६८ ||
,