________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः देशस्य विमलापुर्याश्च धन्यवादोऽस्ति चिरादुत्पन्ना मम तद्दर्शनामिलाषाऽद्य सफला जाता | अनेकदेशेष्वटनं कुर्वद्भिरस्माभिर्द्व एव नगयौं दृष्टे- एकाऽऽभापुरी द्वितीया विमलापुरी च, जगति कापि पुरी अनयोः सादृश्यं प्राप्तुं नार्हति । इत्थं विमलापुर्या बहुश्लाघां विधाय नटैर्नाट्यविधानमारेभे- ते प्रथममेकं स्थानं संमार्ण्य तत्र पुष्पाणां राशिं कृत्वा, तत्र कुक्कुटराजस्य पिअरं संस्थाप्य, चानन्तरं प्रलम्बमेकं वंशमारोप्य, तं रज्जुभिर्दृढं बबन्धुर्येनेतस्ततो न चलेत् । प्रगुणिते नाटकीयातिसुन्दरसर्वोपकरणे शिवमाला भूषणवत्राद्यैः सुसज्जिता सती पुंवेषं निर्माय वंशपार्वे समेत्य तस्थौ, तस्याः परमाद्भुतां लावण्यसम्पत्तिं वीक्ष्य समाकृष्टचेतसः सकलसभासदश्चकिता बभूवुः । यत:गुण आकर्षणयोग्यो, धनुष इवैकोऽपि लक्षलाभाय । लूतातन्तुभिरिव किं, गुणैर्विमर्दासहैर्बहुभिः ॥९॥
___ मकरध्वजराजोऽपि स्वान्ते तस्या नितान्तं श्लाघां कर्तुं प्रवृत्तस्तेन प्रेमलालच्छ्यपि खेलावलोकनायाऽऽकारिता । तया पूर्वमेव श्रुतमासीत्, यदामापुर्याः कतिचिन्नटा इह समागताः सन्ति, ते च स्वक्रीडां दर्शका विद्यन्ते, अतः साऽपरिमितसखीभिस्तदानीमेवोपराजसभमागता, अत्यौत्सुक्येन च तेषां खेलां द्रष्टुमुपविष्टा सहर्षा | यथासमयं कुक्कुटराजस्यादेशमादाय शिवमालाप्याश्चर्यजनकं स्वनाट्यं दर्शयितुं प्रावर्तत । सा वंशं तद्रज्ज्वाश्रयेणारुह्य, नानाविधमासनं नृत्यं व्यायामं च कृत्वाऽदीदृशत् । तदद्भुतकलाकौशलं नेत्रपुटैर्निपीय मुक्तकण्ठं सभ्यास्तां प्रशशंसुः ।
|| १६७ ||