________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः
यतः
तन्न भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति, शिव ! शिव । भवितव्यता विषमा || ७ ||
दृश्यते सम्प्रति किं भवति ? तस्या इदं भाषितमाकर्ण्य सखीभिरुक्तम्- प्रियस्वसः ! तव पुण्यश्रेणी सदैव शुभं करोतु, तव धारणापि फलवती भूयात् । पितृगृहे सुखिन्या अपि स्त्रिया वास्तविकशान्तिसुखप्रदायकं पतिगृहमेवाऽस्ति । पुनर्भवत्या तु चन्द्रराजतुल्यः प्रियो लब्धस्तं स्वजीवने सकृदपि यो द्रक्ष्यति, स कदाचिदपि नो विस्मरिष्यति । भवत्या जपतपश्चर्यादिकमपि बहु कृतं देव्या दत्तोऽप्यवधिर्दीर्घतरः सन्नपि पूर्णो जातः । अधुना पतिदेवो भवत्या यद्यागत्य मिलेत्तर्हि नात्र कश्चिदप्यलीकः । यथा कालमवाप्योदुम्बरोऽपि फलति, करीरेऽपि पत्रपुष्पादि जायते, शुष्कतडागोऽपि जलैः पूर्यते, तथा भवत्या मनोऽभिलाषः कथं न पूर्णो भविष्यति ?
यतः
नैयाकृतिः फलति नैव कुलं न शीलं, विद्यापि नैय न च जन्मकृतापि सेवा । कर्माणि पूर्वतपसा किल सञ्चितानि, काले फलन्ति पुरुषस्य यथेह वृक्षाः
इत्थं वयस्याभिर्वार्तालापं कुर्वती प्रेमला यदाऽऽसीत्तदानीमेव कुक्कुटराजस्य पिञ्जरेण सह नटमण्डली राजसदसि समागता। राज्ञो जयशब्दे कृते नटराजेनाऽभिहितम् - राजन् ! तव सौराष्ट्र
।। १६६ ।।
॥८॥