________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः इतः कुक्कुटाऽधिपे तादृगविचारमग्नेऽकस्मात्प्रेमलाया वामाक्षिस्फुरणं जातम् । सा तदानीं स्वावासे सखीभिः सह समुपविष्टाऽऽसीत्तयाऽविलम्बितमेव ता गदिताः- प्रियभगिन्यः ! अद्य मे वामेक्षणं स्फुरदस्ति । संभाव्यते यन्मे प्राणप्रियः समेत्य संगच्छेत, ज्ञायते च दुःखदायिवियोगस्यावसानमागच्छेत् । ममोद्वाहस्यापि षोडशाब्दी जाता कुलदेव्याप्युक्तमासीत्, यत्षोडशाब्दे जाते तवास्य वियोगस्यावसानमायास्यति । सम्प्रति सोऽवधिरपि पूर्णो जातः, परमहं न ज्ञातुं शक्नोमि, यदयं योगः कथं भविष्यति ? | अथवायस्माच्च येन च यथा च यदा च यच्च, यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च, तावच्च तत्र च विधातूयशादुपैति
દા क्व चाभापुरी क्व च मम प्राणनाथः ! इतो गतेन तेन न किमपि वाचिकं न च पत्रादिकं प्रेषितम्, अतो मया कथं मन्तव्यं यत् स मे दर्शनं दातुं कृपां करिष्यति ? परं देव्याः कथनमपि मिथ्या न भवति, यतो लोका अपि कथयन्ति, शास्त्रेऽपि च श्रूयते'अमोघं देवभाषितम्' एतस्याऽपि परीक्षा भविष्यति । सकृद् यदाहं चिन्तयामि, यन्मे प्रियः सहस्रक्रोशव्यवधाने विद्यते, तदा मे स्वान्तं नैराश्येन मियते । अपरपक्षे यदा देव्या वचनं स्मर्यते, अद्य जातशुभशकुनं च विचिन्तयामि, तदा लक्ष्यते यदवश्यं कोऽपि लाभो वा मे प्राणवल्लभसङ्गमेन चिरकालिकवियोगदुःखं दूरीकृत्य निजेप्सितसुखावसरो भावी ।
|| १६५ ।।