________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः स्वीयं सकलं दुःखं विस्मृतवती । किं त्वं स्वकीयदुःखनिदानं मे न निवेदयिष्यसि ? तदीयामिमामुक्तिमाकर्ण्य तेन निजचरणनखेन भूमौ विलिख्य दर्शितम्- अहमाभापुर्याश्चन्द्राभिधो राजा निष्कारणं विमात्रा कुक्कुटो विहितः, स्वराड्या गुणावल्या वियोगेन च दुःखाब्धौ पतितो विरहवाडवेनाहर्निशं दह्यमानदेहोऽस्मि । एतदेव मे दुःखमुख्यकारणं जानीहि । किमधिकमतद्वियोगसमुत्थेन, तच्चिन्ताविपुलार्चिषा । रात्रिन्दिवं शरीरं मे, दह्यते मदनाग्निना ॥९८॥
पुनरेकेनानेनैव दुःखेन मे दुःखस्यान्तो नास्ति यतो ममेत्थं सर्वत्र नटैः सत्राऽटितुं भवति । कुत्र मे सा पुरी ? क्व च मे तद्राज्यं ? कुत्र च मे सा महिषी ? क्व च सा मनुष्यरूपेण स्थितिः ? क्व च पक्षीभूय क्लेशभोगः, एतत्सर्वं पश्यतस्तु मम दुःखानामन्तो न दृश्यते । उक्तमपिएकस्य दुःखस्य न यावदन्तं, गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे, छिद्रेष्वना बहुलीभवन्ति॥१९॥
हे लीलावति ! तव परिणेता विदेशे गतोऽस्ति, स तु जात्वपि पश्चाद्वलिष्यत्येव, परं मम वियोगस्यावसानं भविष्यति न वेतीवरो वेत्ति । अयि भगिनि ! मम तु धारणा विद्यते, यत्त्वं मादृग दुःखभाग नासि, मम तव च दुःखे गिरिसर्षपयोरिव महदन्तरं वर्तते, मम राश्या दुःखस्याग्रे तव दुःखमगणनीयमस्ति । अतस्त्वमपि
|| ११ ||