________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः किञ्चित्तत्त्वमालोचय, यत्केवलमेकदैनिकपतिवियोगेनापि तवैवंविधा दुःखाऽवस्था जाता, तदा चिरकालवियोगवत्या मत्प्रियायाः का गतिः स्यात् ? | यत्सकटोदधितटं न दृश्यते, तद्विपत्प्रवाहे त्वं तु तृणवदतिप्रवहमाना प्रदृश्येथाः । कुक्कुटराजीयामिमां भूमौ नखलिखिताक्षरमालामालोक्य लीलावती किञ्चिन्मनसि धैर्यभागभूदिति तस्यास्तदुःखस्याग्रे स्वदुःखमल्पं प्रत्यैयत । ततः सा तमाथासयन्त्युवाच- हे राजन् धर्मबन्धो ! भवान् स्वमनसि किमपि खेदं मा कुरुताम् । यतःनाऽभूम भूमिपतयः कति नाम वारान् ?, वारानभूम कति नाम वयं न कीटाः ? । तत्संपदां च विपदां च न कोऽपि पात्रमेकान्ततस्तदलमङ्ग ! मुदा शुचा या
॥२००॥ यदि भवदीयेष्टदेवेच्छा भवेत्तदाऽह्नायैव भवतः स्वराज्यस्य राइयादीनां च प्राप्तिर्भविष्यति । यदि सुदिनं नाऽस्थात्तदाऽयमशुभकालोऽपि चिरं न स्थास्यति । यतःपातितोऽपि कराघातै-रुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्ताना-मस्थायिन्यो विपत्तयः
॥१॥ अहमद्यतो भवन्तं भ्रातरं मंस्ये, त्वयाप्यहं स्वभगिनी बोद्धव्या, विधात्राऽस्य सम्बन्धस्य स्थापनायैव भवानत्र प्रेषित इति वेद्मि । परमावयोरयं संगमः क्षणिकोऽस्ति, अतो यदा भवतो मनुष्यत्वप्राप्ति
|| १६२ ।।