________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
यदुक्तम्
पापी रूपविवर्जितः परुषवागु यो नारकादागतस्तिर्यग्योनिसमागतश्च कपटी नित्यं बुभुक्षातुरः । मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गपरिच्युतः स सुभगः प्राज्ञः कविः श्रीयुतः
वियोगस्यान्तः
॥९७॥
I
I
I
त्वं स्तोकं निजमानसे विचारय यत्पक्षिजातिरेव विवेक - शून्या भवति, तत्राऽपि त्वं तु परं निष्ठुरो निर्मोहश्च लक्ष्यसे । यदि ते किञ्चिदपि विवेकः स्यात्तर्हि प्रातरद्य शब्दं न विदधीत, तदा मेऽपि स्वभर्तुर्वियोगो न जायेत । हे पक्षिराज ! तव तु मयि दयालवोऽपि नाऽऽगतः, परं तव सौन्दर्यं विलोक्य त्वयि मेऽनुकम्पा - ऽऽगच्छति । लीलावत्या इदं दुःखपूर्णं मर्मस्पृग् वचनं निशम्य कुक्कुटराजस्य स्वपूर्वावस्था स्मृतिपथमागता । तदानीमेव तस्याऽक्षिभ्यामश्रुधारा प्रपतति स्म, स च मूर्च्छामेत्य पिञ्जरे निपतितः । तस्येदृशीमवस्थां निरीक्ष्य क्षुब्धा सती लीलावती पिञ्जरतो निष्कास्य स्वक्रोडे संस्थाप्य विविधोपचारेण तं सचेतनीकर्तुं प्रायतत । तस्मिन् सचेतनीभूते तयाऽऽलपितम् - हे विहङ्गराज ! मया तु सरलस्वभावेनैव सर्वा वार्ता कथिता, त्वयि कोपोऽपि न कृतः पुनस्त्वमित्थं कथमदुःखीयथाः ? मम तु स्वप्रियस्य वियोगदुःखमस्ति, अतो मयेयं सर्वा वार्ता कथिता, परं तवैतादृक् किं दुःखं विद्यते, येन त्वं मूर्च्छितोऽभूः ? अहं त्वसमञ्जसे पतिता मया तु त्वं शान्तिदो ज्ञातः, परं वैपरीत्येन मम तुभ्यमेव शान्तिं दातुं भवति । हे चरणायुधेश ! एतत्समस्तं पश्यन्त्या मयैतदेव लक्ष्यते, यत्त्वं मत्तोऽप्यधिको दुःखी वर्तसे । तावकीनस्यैतद्दुःखस्याऽग्रेऽहं तु
|| १६० ||